कर्म-ज्ञान-मिश्रा, यथा—
निषेवितेनानिमित्तेन स्व-धर्मेण महीयसा ।
क्रिया-योगेन शस्तेन नातिहिंस्रेण नित्यशः ॥
मद्-धिष्ण्य-दर्शन-स्पर्श-पूजा-स्तुत्य्-अभिवन्दनैः ।
भूतेषु मद्-भावनया सत्त्वेनासङ्गमेन च ॥
महतां बहु-मानेन दीनानाम् अनुकम्पया ।
मैत्र्या चैवात्म-तुल्येषु यमेन नियमेन च ॥
आध्यात्मिकानुश्रवणान् नाम-सङ्कीर्तनाच् च मे ।
आर्जवेनार्य-सङ्गेन निरहङ्क्रियया तथा ॥
मद्-धर्मणो गुणैर् एतैः परिसंशुद्ध आशयः ।
पुरुषस्याञ्जसाभ्येति श्रुत-मात्र-गुणं हि माम् ॥ [भा।पु। ३.२९.१५-१९]
निषेवितेन सम्यग् अनुष्ठितेन । अनिमित्तेन च निष्कामेन । स्व-धर्मेण नित्य-नैमित्तिकेन । महीयसा श्रद्धादि-युक्तेन । क्रिया-योगेन पञ्चरात्राद्य्-उक्त-वैष्णवानुष्ठानेन । शस्तेन उत्तम-देश-कालादि-मता निष्कामेन च । नातिहिंस्रेण अतिहिंसा-रहितेन । अति-शब्दः प्राणादि-पीडा-परित्याग-फल-पत्रादि-जीवावयव-स्वीकारार्थः । मद्-धिष्ण्यं मद्-अर्चादि1 । भूतेष्व् अन्तर्यामित्वेन मद्-भावनया । सत्त्वेन धैर्येण । असङ्गमेन वैराग्येण च । अहिंसा-सत्यास्तेय-ब्रह्मचर्यापरिग्रहा यमाः[यो।सू। २.३०] । शौच-सन्तोष-तपः-स्वाध्यायेश्वर-प्रणिधानानि नियमाः [यो।सू। २.३२]। आध्यात्मिकम्आत्मानम् आत्म-विवेक-शास्त्रम् । निरहङ्क्रियया गर्व-राहित्येन । मद्-धर्मणो मद्-धर्मानुष्ठातुः पुरुषस्य आशयश् चित्तम् । श्रुत-मात्र-गुणं माम् अञ्जसाभ्येति, मद्-गुण-श्रुति-मात्रेण मयि [भा।पु। ३.२९.११] इत्य्-आद्य्-उक्त-लक्षणां ध्रुवानुस्मृतिं प्राप्नोतीत्य् अर्थः । अत्राध्यात्मिक-श्रवणादिना ज्ञानाङ्गेन ज्ञान-मिश्रत्वम् अपि ॥
॥ ३.२९ ॥ श्री-कपिल-देवः ॥ २२९ ॥
-
मत्-प्रतिमादि, तस्य दर्शनादि (ख) ↩︎