२२८

तद् एवं कैवल्य-कामायां ज्ञान-मिश्रोक्ता । अथ भक्ति-मात्र-कामायां कर्म-मिश्रा, यथा—

श्रद्धामृत-कथायां मे शश्वन् मद्-अनुकीर्तनम् ।
परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ॥ [भा। ११.१९.२०] इत्य्-आदि ।
मद्-अर्थेऽर्थ-परित्यागो भोगस्य च सुखस्य च ।
इष्टं दत्तं हुतं जप्तं मद्-अर्थं यद् व्रतं तपः ॥
एवं धर्मैर् मनुष्याणाम् उद्धवात्म-निवेदिनाम् ।
मयि सञ्जायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते ॥ [भा।पु। ११.१९.२३-२४] इत्य् अन्तम् ।

मद्-अर्थे मद्-भजनार्थं तद्-विरोधितोऽर्थस्य परित्यागःभोगस्य तत्-साधनस्य चन्दनादेः । सुखस्य पुत्रोपलालनादेः । इष्टादिवैदिकं यत् कर्म, तद् अपि मद्-अर्थं कृतं भक्तेः कारणम् इत्य् अर्थः । धर्मैर् भागवताभिधैः । एवं काय-वाङ्-मनोभिस् तद्-अर्थ-मात्र-चेष्टावत्त्वेनानुष्ठितैर् भगवद्-धर्मैर् आत्म-निवेदिनाम् । यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना [भा।पु। ५.१८.१२] इत्य्-आदि-न्यायेनास्य भक्ति-मात्र-कामस्य अन्यः कोऽर्थः साधन-रूपः साध्य-रूपो वावशिष्यते ? सर्वोऽसाव् अनादृतोऽपि तद्-आश्रितो भवतीत्य् अर्थः ॥

॥ ११.१९ ॥ श्री-भगवान् ॥ २२८ ॥