२२६

अथ कैवल्य-कामा । क्वचित् कर्म-ज्ञान-मिश्रा, क्वचिद् ज्ञान-मिश्रा च । तत्र ज्ञानं, ज्ञानं चैकात्म्य-दर्शनम् [भा।पु। ११.१९.२५]इति दर्शितम् । तदीय-श्रवणादीनां1 वैराग्य-योग-साङ्ख्यानां च तद्-अङ्गत्वात्2 तद्-अन्तः-पातः ।

अथ कर्म-ज्ञान-मिश्रा, यथा—

अनिमित्त-निमित्तेन स्व-धर्मेणामलात्मना ।
तीव्रया मयि भक्त्या च श्रुत-सम्भृतया चिरम् ॥
ज्ञानेन दृष्ट-तत्त्वेन वैराग्येण बलीयसा ।
तपो-युक्तेन योगेन तीव्रेणात्म-समाधिना ॥
प्रकृतिः पुरुषस्येह दह्यमाना त्व् अहर्-निशम् ।
तिरो-भवित्री शनकैर् अग्नेर् योनिर् इवारणिः ॥ [भा।पु। ३.२७.२१-२३]

निमित्तं फलं, तन् ननिमित्तं3 प्रवर्तकं, यस्मिन् तेन निष्कामेन । अमलात्मना निर्मलेन मनसा4ज्ञानेन शास्त्रोत्थेन । योगो जीवात्म-परमात्मनोर् ध्यानं, योगः सन्नहनोपाय-ध्यान-सङ्गति-युक्तिषु इति नानार्थ-वर्गात् । ध्यानम् एव ध्यातृ-ध्येय-विवेक-रहितं समाधिः । अत्र सर्वासाम् एव सिद्धीनां मूलं तच्-चरणार्चनम् [भा।पु। १०.८१.१६] इत्य् उक्त्या भक्तेर् अङ्गित्वेऽपि अङ्गवन् निर्देशः, तेषां तत्र साधनान्तर-सामान्य-दृष्टिर् इत्य् अभिप्रायेण । अत एव तेषां मोक्ष-मात्र-फलम् इति ॥

॥ ३.२७ ॥ श्री-कपिल-देवः ॥ २२६ ॥


  1. श्रवण-मननाङ्गीनां (क, ङ) ↩︎

  2. छ, झ, ञ इन्सेर्त् । ↩︎

  3. न तन्- (य) ↩︎

  4. इत्य् अस्मात् परम्—“श्रुतेन कथा-श्रवणेन सम्भृतया पुष्टया” इति अतिरिक्त-पाठः ख-करलिप्याम् उपलभ्यते। ↩︎