२२५

तद् एवम् आरोप-सिद्धा दर्शिता । अथ सङ्ग-सिद्धोदाहरण-प्राप्ता मिश्रा भक्तिर् दर्श्यते1 । स्वरूप-सिद्धासङ्गेन ह्य् अन्येषाम् अपि भक्तित्वं दर्शितम् । तत्र भागवतान् धर्मान् [भा।पु। ११.३.२४] इत्य्-आदि-श्री-प्रबुद्ध-वाक्य-प्रकरणे सर्वासङ्ग-दया-मैत्र्य्-आदीनाम् अपि भागवत-धर्मत्वाभिधानात् ।

तत्र कर्म-मिश्रा त्रिविधा सम्भवति—स-कामा, कैवल्य-कामा, भक्ति-मात्र-कामा च । यद्यपि काम-कैवल्ये अपि—

या वै साधन-सम्पत्तिः पुरुषार्थ-चतुष्टये ।
तया विना तद् आप्नोति नरो नारायणाश्रयः ॥

इत्य् उक्तेः केवलयैव भक्त्या सम्भवतः, तथापि तत्-तद्-वासनानुसारेण तत्र तत्र रुचिर् जायते । इत्य् एवं तत्-तद्-अर्थं तन्-मिश्रता तु जायत इत्य् अवगन्तव्यम् ।

ततः स-कामा प्रायः कर्म-मिश्रैव । तत्र कर्म-शब्देन धर्म एव गृह्यते । तल्-लक्षणं च यम-दूतैः सामान्यत उक्तं, वेद-प्रणिहितो धर्मः [भा।पु। ६.२.३६] इति । _वेदो_ऽत्र त्रैगुण्य-विषयः, त्रैगुण्य-विषया वेदाः [गीता २.४५] इति श्री-गीतोक्तेः । तत्-प्रवर्तन-मात्रत्वेन सिद्धः, न तु भक्तिवद् अज्ञानेनापीत्य् अर्थः । श्री-गीतास्व् एवान्यत्र तस्य कर्म-संज्ञितत्वं चोक्तं—भूत-भावोद्भव-करो विसर्गः कर्म-संज्ञितः [गीता ८.३] इति । विसर्गो देवतोद्देशेन द्रव्य-त्यागः । तद्-उपलक्षितः सर्वोऽपि धर्मः कर्म-संज्ञित इत्य् अर्थः । स च भूतानां प्राणिनां ये भावा वासनाः, तेषाम् उद्भव-कर इति विशेषणाद् भगवद्-भक्तिर् व्यावृत्ता ।

अथ भक्ति-सङ्गाय धर्मस्य वैशिष्ट्यं चैकादशे श्री-भगवतोक्तं—धर्मो मद्-भक्ति-कृत् प्रोक्तः [भा।पु। ११.१९.२५] इति । भगवद्-अर्पणेन भक्ति-परिकरीकृतत्वेन च भक्ति-कृत्त्वम् उच्यते । तद् एवम् ईदृशेन कर्मणा मिश्रा स-कामा भक्तिर् यथा—

प्रजाः सृजेति भगवान् कर्दमो ब्रह्मणोदितः ।
सरस्वत्यां तपस् तेपे सहस्राणां समा दश ॥
ततः समाधि-युक्तेन क्रिया-योगेन कर्दमः ।
सम्प्रपेदे हरिं भक्त्या प्रपन्न-वरदाशुषम् ॥ [भा।पु। ३.२१.६-७]

अत्र तद्-दर्शन-जात-भगवद्-अश्रु-पात-लिङ्गेन निष्कामस्याप्य् अस्य ब्रह्मादेश-गौरवेणैव कामना ज्ञेया ॥

॥ ३.२१ ॥ श्री-मैत्रेयो विदुरम् ॥ २२५ ॥


  1. दर्शिष्यते (छ, झ, ञ) ↩︎