तद् एतत् कर्मार्पणं द्विविधम्—भगवत्-प्रीणन-रूपं, तस्मिंस् तत्-त्याग-रूपं चेति। यथोक्तं कौर्मे—
प्रीणातु भगवान् ईशः कर्मणानेन शाश्वतः ।
करोति सततं बुद्ध्या ब्रह्मार्पणम् इदं परम् ॥
यद् वा फलानां सन्न्यासं प्रकुर्यात् परमेश्वरे ।
कर्मणाम् एतद् अप्य् आहुर् ब्रह्मार्पणम् अनुत्तमम् ॥ इति ।
अत्र निमित्तानि च त्रीणि—कामना, नैष्कर्म्यं, भक्ति-मात्रं चेति । निष्कामत्वं तु केवलं न सम्भवति, यद् यद् धि कुरुते जन्तुस् तत् तत् कामस्य चेष्टितम् [मनु २.४]इत्य्1 उक्तेः । अत्र कामना-नैष्कर्म्ययोः प्रायः कर्म-त्यागः । प्रीणनं तु तद्-आभास एव, स्वार्थ-परत्वात् । भक्तौ पुनः प्रीणनम् एव, भक्तेस् तु तद्-एक-जीवनत्वात् ।
कामना-प्राप्तिर् यथा—क्लेश-भूर्य्-अल्प-साराणि[भा।पु। ८.५.४७] इत्य्-आदि । यथा चाङ्गस्य राज्ञः पुरुषार्थके2 यज्ञे । \
नैष्कर्म्य-प्राप्तिश् च—
वेदोक्तम् एव कुर्वाणो निःसङ्गोऽर्पितम् ईश्वरे ।
नैष्कर्म्यां लभते सिद्धिं [भा।पु। ११.३.४७] इत्य् अत्र ।
अथ भक्ति-प्राप्तिश् च—एवं कर्म-विशुद्ध्या [भा।पु। ५.७.७] इत्य्-आदि-गद्ये दर्शितैव ।
यद् अत्र क्रियते कर्म भगवत्-परितोषणम् ।
ज्ञानं यत् तद् अधीनं हि भक्ति-योग-समन्वितम् ॥ [भा।पु। १.५.३५] इत्य् अत्र च ।
भक्ति-योग-सहचरत्वाज् ज्ञानम् अत्र भगवज्-ज्ञानम् । परम-भक्तास् तु भगवत्-परितोषणं प्रीणनम् एव प्रार्थयन्ते—
यन् नः स्वधीतं गुरवः प्रसादिता
विप्राश् च वृद्धाश् च सदानुवृत्त्या ।
आर्या नताः सुहृदो भ्रातरश् च
सर्वाणि भूतान्य् अनसूययैव ॥ [भा।पु। ४.३०.३९]
यन् नः सुतप्तं तप एतद् ईश
निरन्धसां कालम् अदभ्रम् अप्सु ।
सर्वं तद् एतत् पुरुषस्य भूम्नो
वृणीमहे ते परितोषणाय ॥ [भा।पु। ४.३०.४०]
अदभ्रं बहु-कालं ते तव परितोषणायभवत्व् इति वृणीमहे ॥
॥ ४.३० ॥ प्रचेतसः श्रीमद्-अष्टभुजं पुरुषम् ॥ २२४ ॥