२२३

अथ द्वितीयं गद्यम्—

एवं कर्म-विशुद्ध्या विशुद्ध-सत्त्वस्यान्तर्-हृदयाकाश-शरीरे ब्रह्मणि भगवति वासुदेवे महा-पुरुष-रूपोपलक्षणे श्रीवत्स-कौस्तुभ-वन-मालारि-दर-गदादिभिर् उपलक्षिते निज-पुरुष-हृल्-लिखितेनात्मनि पुरुष-रूपेण विरोचमान उच्चैस्तरां भक्तिर् अनुदिनम् एधमान-रयाजायत ॥[भा।पु। ५.७.७] इति ।

एवं पूर्वोक्त-प्रकारेण कर्म-विशुद्ध्या विशुद्ध-सत्त्वस्य भक्तिः स-श्रद्ध-श्रवण-कीर्तनादि-लक्षणा अजायत इत्य् अन्वयः । क्वचिद्भगवति1 वासुदेवे पूर्ण-स्वरूप-भगाभ्यां सर्व-निवासेन च तत्-तन्-नाम्ना प्रसिद्धे, अन्तर्-हृदयेआकाशः, स एव शरीरं स्वस्यैवाविर्भाव-विशेषाधिष्ठानं यस्य तस्मिन्न् अन्तर्यामिणि परमात्माख्ये, ब्रह्मणि निर्विशेषाविर्भावात् तद्-आख्ये च ।

भगवतो निराकारत्वं वारयति—महा-पुरुषस्य यद् रूपं शास्त्रे श्रूयते तद् रूपं लक्ष्यते दृश्यते यत्र तस्मिन् । किं च, श्रीवत्सादिभिर् अपि चिह्निते2एधमान-रया वर्धमान-प्रकर्षा ॥

॥ ५.७ ॥ श्री-शुकः ॥ २२३ ॥


  1. क्व ? (य) ↩︎

  2. इत्य् अस्मात् परं—“निज-पुरुषानां नारदादीनां हृदि लिखितवन् निश्चलतया स्थितेन उक्तेन पुरुष-रूपेण आत्म्नि स्व-मनसि विरोचमाने । कीदृशी भक्तिः ? अत्यन्तातिशयेन” इत्य् अतिरिक्त-पाठः ख-करलिप्यां प्राप्तः ॥ ↩︎