२२२

किं च, कर्म-फलं वस्तुतो भगवद्-आश्रयम् एव । तत् तु दुर्बुद्धेर् आत्म-सात्-कुर्वतो युक्त्यैव तुच्छ-फल-प्राप्तिः संसारश् च । सुधियस् तु तत्-साक्षात्-कुर्वतस् तद्-वैपरीत्यम् इत्य् आह गद्याभ्याम्—

सम्प्रचरत्सु नाना-यागेषु विरचिताङ्ग-क्रियेष्व् अपूर्वं यत् तत् क्रिया-फलं धर्माख्यं परे ब्रह्मणि यज्ञ-पुरुषे सर्व-देवता-लिङ्गानां मन्त्राणाम् अर्थ-नियामकतया साक्षात्-कर्तरि पर-देवतायां भगवति वासुदेव एव भावयमान आत्म-नैपुण्य-मृदित-कषायो हविःष्व् अध्वर्युभिर् गृह्यमाणेषु स यजमानो यज्ञ-भाजो देवांस् तान् पुरुषावयवेष्व् अभ्यध्यायत् । [भा।पु। ५.७.६] इति ।

टीका च—सम्प्रचरत्सु प्रवर्तमानेषु नाना-यागेषुविरचिता अनुष्ठिता अङ्ग-क्रिया येषु, तेषु यद् अपूर्वंतद् वासुदेव एव भावयमानश् चिन्तयन्, स यजमानो यज्ञ-भाग-भाजो ये देवाः सूर्यादयः, तान् पुरुषस्य वासुदेवस्य आवयवेषु चक्षुर्-आदिषु अभ्यध्यायत्, न तु तत्-पृथक्त्वेनेत्य् अन्वयः ।

अपूर्वे पक्ष-द्वयं मीमांसकानाम् । तद् इदानीम् एव सूक्ष्मत्वेनोत्पन्नं फलम् एवापूर्वं, कालान्तरे फलोत्पादिका कर्म-शक्तिर् वेति । तद् उक्तम्—

यागाद् एव फलं तद् धि शक्ति-द्वारेण सिध्यति ।
सूक्ष्म-शक्त्य्-आत्मकं वापि फलम् एवोपजायते ॥ [तन्त्र-वार्त्तिका २.१.५]इति ।

तद् एतद् आह—क्रिया-फलं धर्माख्यम्इति च ।

ननु यद्य् अङ्गं देवता कर्म प्रधानम् इति मतं, तर्हि कर्तृ-निष्ठम् अपूर्वं स्यात् । तद् उक्तम्—

कर्मभ्यः प्राग्-अयोग्यस्य कर्मणः पुरुषस्य वा ।
योग्यता शास्त्र-गम्या या परा सापूर्वम् इष्यते ॥ [तन्त्र-वार्त्तिका २.१.५]इति ।

अथ देवता-प्रधानं कर्म तु देवताराधनार्थं, तदा देवता-प्रसाद-रूपत्वाद् अपूर्वस्य देवताश्रयत्वम् एव युक्तं । कर्मभ्यः प्राग्-अयोग्यस्य प्रोक्षणाद्य्-अपूर्वस्येव1 व्रीह्य्-आद्य्-आश्रयत्वम् । कुतो वासुदेवाश्रयम् अपूर्वं भावयति ?

उच्यते—यदि कर्तृ-निष्ठम् अपूर्वं स्यात्, तर्हि वासुदेवस्यान्तर्यामिणः प्रवर्तकत्वेन मुख्य-कर्तृत्वात् तद्-आश्रयम् एवापूर्वं, न तु तत्-प्रयोज्य-यजमानाश्रयं, “शास्त्र-फलं प्रयोक्तरि” इति न्यायात् । अन्यथा ऋत्विजाम् अप्य् अपूर्वाश्रयत्व-प्रसङ्गात् । तद् एतद् आह—साक्षात्-कर्तरि इति ।

देवताश्रयत्वेऽपि वासुदेवाश्रयत्वम् एवेत्य् आह—पर-देवतायाम् इति । पर-देवतात्वे हेतुः—सर्व-देवता-लिङ्गानां तत्-तद्-देवता-प्रकाशकानां मन्त्राणां येअर्था इन्द्रादि-देवतास् तेषां नियामकतया तस्यैव प्रसादनीयत्वात् फल-दातृत्वाच् च युक्तम् एवापूर्वाश्रयत्वम्2 इत्य् अर्थः । एवं भावनम् एव आत्मनो नैपुण्यं कौशलं, तेन मृदिताः क्षीणाः कषाया रागादयो यस्य । अध्वर्युभिर् इति बहु-वचनं नाना-कर्माभिप्रायेण ॥इत्य् एषा ।

अत्र विष्णोर् अङ्गित्वे प्राप्ते यज्ञाङ्गत्वेन तद्-भजनं च दोष इति लभ्यते । अत्र पाद्मोत्तर-खण्डे यथा—

उद्दिश्य देवता एव जुहोति च ददाति च ।
स पाषण्डीति विज्ञेयः स्वतन्त्रो वापि कर्मसु ॥ [प।पु। ६.२३५.८] इति ।

पाषण्डत्वम् अत्र वैष्णव-मार्गाद् भ्रष्टत्वम् इत्य् अर्थः । श्री-गीतासु—

येऽप्य् अन्य-देवता-भक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम् ॥
अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च ।
न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते ॥ [गीता ९.२३-२४] इति ।

अतो वास्तव-विचारे सर्व एव वेद-मार्गाः श्री-भगवत्य् एव पर्यवस्यन्तीत्य् अभिप्रेत्योक्तं श्रीमद्-अक्रूरेण—

सर्व एव यजन्ति त्वां सर्व-देव-मयेश्वरम् ।
येऽप्य् अन्य-देवता-भक्ता यद्य् अप्य् अन्य-धियः प्रभो ॥
यथाद्रि-प्रभवा नद्यः पर्जन्यापूरिताः विभो ।
विशन्ति सर्वतः सिन्धुं तद्वत् त्वां गतयोऽन्ततः ॥ [भा।पु। १०.४०.९-१०] इति ।

गतयो मार्गाः । अन्ततो विचार-पर्यवसानेन ।


  1. अपूर्वस्यैव (छ, ज, ञ) ↩︎

  2. युक्तम् एवाश्रयत्वम् (छ, ज, ञ) ↩︎