२२१

एवं नृणां क्रिया-योगाः सर्वे संसृति-हेतवः ।
त एवात्म-विनाशाय कल्पन्ते कल्पिताः परे ॥ [भा।पु। १.५.३४]

परे भगवति कल्पिताः कामनयाप्य् अर्पिताः सन्तः संसार-ध्वंस-पर्यन्त-फलत्वाद् आत्म-विनाशाय कर्म-निवृत्तये कल्पन्ते

॥ १.५ ॥ श्री-नारदो श्री-वेद-व्यासम् ॥ २१९-२२१ ॥