२२०

ननु, उत्पत्त्यैव तत्-तत्-सङ्कल्पेन विहितत्वात् संसार-हेतोः कर्मणः कथं ताप-त्रय-निवर्तकत्वम् ? उच्यते—सामग्री-भेदेन घटत इति, यथा—

आमयो यश् च भूतानां जायते येन सुव्रत ।
तद् एव ह्य् आमयं द्रव्यं न पुनाति चिकित्सितम् ॥ [भा।पु। १.५.३३]

य आमयो रोगो येन घृतादिना जायते, तद् एव केवलम् आमय-कारणं द्रव्यम् । तम् आमयं निवर्तयति, किन्तु चिकित्सितं द्रव्यान्तरैर् भावितं सत् निवर्तयत्य् एव ॥