२१९

तद् एव कर्मार्पणम् उपपादयति त्रिभिः—

एतत् संसूचितं ब्रह्मंस् ताप-त्रय-चिकित्सितम् ।
यद् ईश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ [भा।पु। १.५.३२]

ब्रह्मन् ! हे वेद-व्यास ! एतत् ताप-त्रयस्य चिकित्सितं चिकित्सा तैश् चातुर्मास्य-वासिभिः परमहंसैः सूचितम् । किं तत् ? भगवति कर्म यत् समर्पितं भवति, तत्र कर्म-समर्पणम् एवेत्य् अर्थः । कथं-भूते ? स्वयं भगवति पूर्ण-स्वरूपैश्वर्यादि-मत्तया सर्वांशिन्य् एव, केनचिद् अंशेन जीवादि-नियन्तृतया ईश्वरे परमात्म-शब्द-वाच्ये, स्वरूप-भूत-विशेषेण1 विना केवल-चिन्-मात्रतया प्रतिपाद्यत्वेन ब्रह्मनि तच्-छब्द-वाच्ये ॥


  1. -विशेषणेन (य); -विशेषान् (ख, च) ↩︎