अथ वैदिक-कर्मार्पणस्य प्रशंसाम् आहुः—
क्लेश-भूर्य्-अल्प-साराणि कर्माणि विफलानि वा ।
देहिनां विषयार्तानां न तथैवार्पितं त्वयि ॥ [भा।पु। ८.५.४७]
विषयार्तानां कर्माणि क्वचित् क्लेशो भूरिर् येषु तथाप्य् अल्पं फलं येषु तथा-भूतानि1 भवन्ति, क्वचित् कृष्यादिवद् विफलानिवा भवन्ति, त्वय्य् अर्पितं कर्म तु न तथा । किन्तु क्लेशं विना यथा-कथञ्चित् कृतस्य कामनयाप्य् अर्पणे तत्-कामस्यावश्यक-प्राप्तिः । सा च सर्वत उत्कृष्टा भवति । तथा तन्-मात्र-फलेन च पर्याप्तिर् न भवति, संसार-विध्वंसादि-फलत्वाद् इत्य् अर्थः । तद् उक्तम्—
यान् आस्थाय नरो राजन् न प्रमाद्येत कर्हिचित् ।
धावन् निमील्य वा नेत्रे न स्खलेन् न पतेद् इह ॥ [भा।पु। ११.२.३५] इति ।
सत्यं दिशत्य् अर्थितम् अर्थितो नॄणाम् [भा।पु। ५.१९.२७] इत्य्-आदि च । यथैव नाभिः ऋषभ-देव-रूपं भगवन्तं पुत्रत्वेनापि लेभे । श्री-गीतासु च—
नेहाभिक्रम-नाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् ॥ [गीता २.४०] इति ।
॥ ८.५ ॥ देवाः श्रीमद्-अजितम् ॥ २१८ ॥
-
तथाप्य् अभूतानि (य) ↩︎