२१७

सा भक्तिस् त्रिविधा—आरोप-सिद्धा, सङ्ग-सिद्धा, स्वरूप-सिद्धा च । तत्रारोप-सिद्धा स्वतो भक्तित्वाभावेऽपि भगवद्-अर्पणादिना भक्तित्वं प्राप्ता कर्मादि-रूपा । सङ्ग-सिद्धा स्वतो भक्तित्वाभावेऽपि तत्-परिकरतया संस्थापनेन, तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः [भा।पु। ११.३.२२] इत्य्-आदि-प्रकरणेषु, सर्वतो मनसोऽसङ्गम् [भा।पु। ११.३.२३] इत्य्-आदिना लब्ध-तद्-अन्तः-पाता ज्ञान-कर्म-तद्-अङ्ग-रूपा । स्वरूप-सिद्धा चाज्ञानादिनापि तत्-प्रादुर्भावे भक्तित्वाव्यभिचारिणी साक्षात्-तद्-अनुगत्य्-आत्मा तदीय-श्रवण-कीर्तनादि-रूपा, श्रवणं कीर्तनं विष्णोः [भा।पु। ७.५.२३] इत्य्-आदौ, विष्णोः श्रवणं विष्णोः कीर्तनम् इति विशिष्टस्यैव विवक्षितत्वात् । तेषाम् अपि नारोप-सिद्धत्वं, प्रत्युत मूढ-प्रोन्मत्तादिषु तद्-अनुकर्तृष्व् अपि कथञ्चित् सम्बन्धेन फल-प्रापकत्वात् । स्वरूप-सिद्धत्वं, यथा श्री-प्रह्लादस्य पूर्व-जन्मनि श्री-नृसिंह-चतुर्दश्य्-उपवासः, यथा कुक्कुर-मुख-गतस्य श्येनस्य भगवन्-मन्दिर-परिक्रमः । एवम् अन्य-दृष्ट्य्-आदिना मूढादिभिः कृतस्य वन्दनस्यापि ज्ञेयम् ।

तद् एवं त्रिविधापि सा पुनर् अकैतवा सकैतवा चेति द्विविधा ज्ञेया । तत्रारोप-सङ्ग-सिद्धयोर् यस्या भक्तेः सम्बन्धेन भक्ति-पद-प्राप्त्यां सामर्थ्यं तन्-मात्रापेक्षत्वं चेद् अकैतवत्वं, स्वीयान्यदीय-फलापेक्षत्वं चेत् सकैतवत्वम् । स्वरूप-सिद्धायाश् च यस्य भगवतः सम्बन्धेन तादृशं माहात्म्यं तन्-मात्रापेक्ष-परिकरत्वं चेद् अकैतवत्वं, प्रयोजनान्तरापेक्षया कर्म-ज्ञान-परिकरत्वं चेत् सकैतवत्वम् । इयम् एवाकैतवा अकिञ्चनाख्यत्वेन पूर्वम् उक्ता, धर्मः प्रोज्झित-कैतवोऽत्र परमः [भा।पु। १.१.२] इत्य् एव वास्य1 तद्-उभय-विधत्वे प्रमाणं ज्ञेयम् । तथोक्तं—प्रीयतेऽमलया भक्त्या हरिर् अन्यद् विडम्बनम् [भा।पु। ७.७.५२] इति ।

अथ आरोप-सिद्धा—एतद्-अर्थम् एव नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितम् [भा।पु। १.५.१२] इत्य्-आदौ सकाम-निष्कामयोर् द्वयोर् अपि कर्मणोर् निन्दा, भगवद्-वैमुख्याविशेषात्। तत्र यादृच्छिक-चेष्टाया अपि भगवद्-अर्पितत्वे भगवद्-धर्मत्वं भवति, किम् उत वैदिक-कर्मण इति वक्तुं तस्या अपि तद्-रूपत्वम् आह—

कायेन वाचा मनसेन्द्रियैर् वा
बुद्ध्यात्मना वानुसृत-स्वभावात् ।
करोति यद् यत् सकलं परस्मै
नारायणायेति समर्पयेत् तत् ॥ [भा।पु। ११.२.३६]

पूर्वं हि धर्मान् भागवतान् ब्रूत [भा।पु। ११.२.३१] इति प्रश्नानन्तरं, ये वै भगवता प्रोक्ता [भा।पु। ११.२.३४] इत्य्-आदिना मुख्यत्वेन साक्षात्-तल्-लब्धये उपाय-भूताः श्रवण-कीर्तनादयो भागवता धर्मा लक्षिताः । ते चात्रैव शृण्वन् सुभद्राणि रथाङ्ग-पाणेः [भा।पु। ११.२.३९] इत्य्-आदिना कतिचिद् दर्शिताः । उत्तराध्याये च—तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः [भा।पु। ११.३.२२] इत्य् उपक्रम-वाक्याद् अनन्तरं, इति भागवतान् धर्मान् शिक्षन् भक्त्या तद्-उत्थया [भा।पु। ११.३.३३] इत्य् उपसंहार-वाक्यस्य प्राग् भागवत-धर्मत्वेनान्य-सङ्ग-त्यागादिकम् अपि वक्ष्यते—सर्वतो मनसोऽसङ्गम् [भा।पु। ११.३.२३] इत्य्-आदिना । तस्मात् लौकिक-कर्माद्य्-अर्पणम् इदं, यथा-कथञ्चित् तद्-धर्म-सिद्ध्य्-अर्थम् एवोच्यते ।

अर्थश् चायं टीकायाम्—आत्मना चित्तेनाहङ्कारेण वा अनुसृतो यः स्वभावस् तस्मात् । अयम् अर्थः—न केवलं विधितः कृतम् एवेति नियमः, स्वभावानुसारि लौकिकम् अपीति । श्री-गीतासु च—

यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् ।
यत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम् ॥ [गीता ९.२७] इति ॥इत्य् एषा ।

इतः पूर्वं प्राण-बुद्धि-धर्माधिकारतः [भा।पु। १०.२३.२७]इत्य्-आदिक-मन्त्रश् च तथा । अत्र स्वाभाविक-कर्मणोऽर्पणे दुष्कर्मणो द्विविधा गतिः—ज्ञानेच्छूनाम् अविशेषेण, भक्तीच्छूनां तु अनेन दुर्वासन-दुःख-दर्शनेन च स करुणामयः करुणां करोत्व् इति वा—

या प्रीतिर् अविवेकानां विषयेष्व् अनपायिनी ।
त्वाम् अनुस्मरतः सा मे हृदयान् नापसर्पतु ॥
[वि।पु। १.२०.१९] इति विष्णु-पुराणोक्त-प्रकारेण,

युवतीनां यथा यूनि यूनां च युवतौ यथा ।
मनोऽभिरमते तद्वन् मनोऽभिरमतां त्वयि ॥ [प।पु। ६.१२८.२५८]

इति पाद्मोक्त-प्रकारेण च मम सुकर्मणि दुष्कर्मणि च यद्राग-सामान्यं तत् सर्वतो-भावेन भगवद्-विषयम् एव भवत्व् इति समाधेयम् । कामिनां तु न सर्वथैव सर्व-दुष्कर्मार्पणम्, वेदोक्तम् एव कुर्वाणो निःसङ्गोऽर्पितम् ईश्वरे [भा।पु। ११.३.४] इत्य् अत्र पुनर् वैदिकम् एवेश्वरेऽर्पितं कुर्वाण इत्य् उक्तेः ॥

॥ ११.२ ॥ श्री-कविर् निमिम् ॥ २१७ ॥


  1. इत्य् अत्र चास्यास् (य) ↩︎