तद् एवं ज्ञानमुक्तम् । इदम् एव स्वभावोऽध्यात्मम् उच्यते [गीता ८.३] इत्य् अनेन श्री-गीतासूक्तम् । स्वस्य शुद्धस्यात्मनो भावो भावना, आत्मन्य् अधिकृत्य वर्तमानत्वाद् अध्यात्म-शब्देनोच्यत इत्य् अर्थः ।
अथाहंग्रहोपासनं तच्-छक्ति-विशिष्ट ईश्वर एवाहम् इति चिन्तनम् । अस्य फलं स्वस्मिंस् तच्-छक्त्य्-आद्य्-आविर्भावः, यथा विष्णु-पुराणे नागपाशादि-यन्त्रितः श्री-प्रह्लादस् तादृशम् आत्मानं स्मरन् नागपाशादिकम् उत्सारितवान् । अत्रान्तिम-फलं च कीट-पेशस्कृन्-न्यायेन सारूप्य-सार्ष्ट्य्-आदिकं ज्ञेयम् ।1
अथ भक्तिः । तस्यास् तटस्थ-लक्षणं स्वरूप-लक्षणं च, यथा गरुड-पुराणे—
विष्णु-भक्तिं प्रवक्ष्यामि यया सर्वम् अवाप्यते ।
यथा भक्त्या हरिस् तुष्येत् तथा नान्येन केनचित् ॥[ग।पु। १.२२७.१]
इत्य् उक्त्वाह—
भज इत्य् एष वै धातुः सेवायां परिकीर्तितः ।
तस्मात् सेवा बुधैः प्रोक्ता भक्तिः साधन-भूयसी ॥[ग।पु। १.२२७.३] इति ।
यया सर्वम् अवाप्यते इति तटस्थ-लक्षणम् । अत्र च अकामः सर्व-कामो वा [भा।पु। २.३.१०] इत्य्-आदि-सिद्धत्वाद् अव्याप्त्य्-अभावः । यथा भक्त्या इत्य्-आद्य्-उक्तत्वाद् अतिव्याप्त्य्-अभावः । _बुधैः _प्रोक्तत्वाद् असम्भवाभावश् च । सेवा-शब्देन स्वरूप-लक्षणम् । सा च सेवा कायिक-वाचिक-मानसात्मिका त्रिविधैवानुगतिर् उच्यते । अत एव भय-द्वेषादीनाम् अहङ्ग्रहोपासनायाश् च व्यावृत्तिः । साधन-भूयसी साधनेषु श्रेष्ठेत्य् अर्थः । तद् एव लक्षण-द्वयं प्रकारान्तरेणाह—
ये वै भगवता प्रोक्ता उपाया ह्य् आत्म-लब्धये ।
अञ्जः पुंसाम् अविदुषां विद्धि भागवतान् हि तान् ॥ [भा।पु। ११.२.३४]
अविदुषां पुंसां तन्-माहात्म्यम् अविद्वद्भिर् अपि कर्तृभिः । आत्मनः—ब्रह्म परमात्मा भगवान् इत्य् आविर्भाव-भेदवतः स्वस्य कर्म-भूतस्य2 अञ्जः अनायासेनैव लब्धये लाभाय ये उपायाः साधनानि स्वयं भगवता—
कालेन नष्टा प्रलये वाणीयं वेद-संज्ञिता ।
मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद्-आत्मकः ॥ [भा।पु। ११.१४.३]
इत्य् अनुसारेण प्रोक्ताः । तान् उपायान् भागवतान् धर्मान् विद्धि3 । हि प्रसिद्धौ । तत्र साक्षाद् भक्तेर् अपि भागवत-धर्माख्यत्वं, एतावान् एव लोकेऽस्मिन् [भा।पु। ६.३.२२] इत्य् अत्र परम-धर्मत्व-ख्यापनया4 दर्शितम् । अत्र आत्म-लब्धये प्रोक्ता इति तटस्थ-लक्षणम्, अन्येन तद्-अलाभाद् अव्यभिचारि । आत्म-लब्धय उपाया इति स्वरूप-लक्षणम्, तल्-लाभोपायो हि तद्-अनुगतिर् एव ॥
॥ ११.२ ॥ श्री-कविर् निमिम् ॥ २१६ ॥