तत्-साधन-प्रकारश् चैवं बहु-विधस् तत्र तत्रोक्तः । स च ज्ञानम् एवोच्यते । तत्र श्रवणं श्री-पृथु-सनत्कुमार-संवादादौ द्रष्टव्यम् । तद्-अनुसारेण मननं च ज्ञेयम् । प्रथमतः श्रोतॄणां हि विवेकस् तावान् एव यावता जडातिरिक्त-चिन्-मात्रं वस्तूपस्थितं भवति। तस्मिंश् चिन्-मात्रेऽपि वस्तुनि ये विशेषाः स्वरूप-भूत-शक्ति-सिद्धा भगवत्तादि-रूपा वर्तन्ते, तांस् तु ते विवेक्तुं न क्षमन्ते, यथा रजनी-खण्डिनि1 ज्योतिषि ज्योतिर्-मात्रत्वेऽपि ये मण्डलान्तर्बहिश् च दिव्य-विमानादि-परस्पर-पृथग्-भूत-रश्मि-परमाणु-रूपा विशेषास् तांश् चर्म-चक्षुषो न क्षमन्त इत्य् अन्वयः, तद्वत्2 ।
पूर्ववच् च यदि महत्-कृपा-विशेषेण दिव्य-दृष्टिता भवति, तदा विशेषोपलब्धिश् च भवेत् । न चेन्, निर्विशेष-चिन्-मात्र-ब्रह्मानुभवेन तल्-लीन एव भवति । तथैव निदिध्यासनम् अपि तेषाम् । तद् यथा—
स्थिरं सुखं चासनम् आस्थितो यतिर्
यदा जिहासुर् इमम् अङ्ग लोकम् ।
काले च देशे च मनो न सज्जयेत्
प्राणान् नियच्छेन् मनसा जितासुः ॥
मनः स्व-बुद्ध्यामलया नियम्य
क्षेत्र-ज्ञ एतां निलयेत् तम् आत्मनि ।
आत्मानम् आत्मन्य् अवरुध्य धीरो
लब्धोपशान्तिर् विरमेत कृत्यात् ॥ [भा।पु। २.२.१५-१६]
एतां बुद्धिं क्षेत्रज्ञे बुद्ध्य्-आदि-द्रष्टरि निलयेत्, प्रविलापयेत् । तं च क्षेत्रज्ञं स्वरूप-भूतया बुद्ध्या आत्मनि तद्-द्रष्टृत्वादि-रहिते शुद्धे जीवे । तं च शुद्धम् आत्मानम् आत्मनि ब्रह्मणि, अवरुध्य तद्-एकत्वेन विचिन्त्य लब्धोपशान्तिः प्राप्त-निर्वृतिः सन् कृत्याद् विरमेत्, तस्य ततः परं प्राप्याभावात् ॥
॥ २.२ ॥ श्री-शुकः ॥ २१५ ॥