तद् एवं रुच्य्-आदिःश्री-गुर्व्-आश्रयान्त1 उपासना-पूर्वाङ्ग-रूपः साम्मुख्य-भेदो बहु-विधो दर्शितः । अथ साक्षाद्-उपासना-लक्षणस् तद्-भेदोऽपि बहु-विधो दर्श्यते । तत्र साम्मुख्यं द्विविधं—निर्विशेष-मयं स-विशेष-मयं च । तत्र पूर्वं ज्ञानम् । उत्तरं तु द्विविधम्—अहङ्ग्रहोपासना-रूपं, भक्ति-रूपं च ।
अस्य ज्ञानस्य लक्षणं—
ज्ञानं चैकात्म्य-दर्शनम् [भा।पु। ११.१९.२७] इति ।
अभेदोपासनं ज्ञानम् इत्य् अर्थः ॥
॥ ११.१९ ॥ श्री-भगवान् ॥ २१४ ॥
-
रुच्य्-आदिना (ज, य) ↩︎