शुद्ध-भक्तास् त्व् एके श्री-गुरोः श्री-शिवस्य च श्री-भगवता सहाभेद-दृष्टिं तत्-प्रियतमत्वेनैव मन्यन्ते, यथा—
वयं तु साक्षाद् भगवन् भवस्य
प्रियस्य सख्युः क्षण-सङ्गमेन ।
सुदुश्चिकित्स्यस्य भवस्य मृत्योर्
भिषक्तमं त्वाद्य गतिं गताः स्म ॥ [भा।पु। ४.३०.३८]
टीका च—तव यः प्रियः सखा तस्य भवस्य । अत्यन्तम् अचिकित्सस्य भवस्य जन्मनो मृत्योश् च भिषक्तमं सद्-वैद्यं त्वां गतिं प्राप्ताः ॥ इत्य् एषा । श्री-शिवो ह्य् एषां वक्तॄणां गुरुः ॥
॥ ४.३० ॥ श्री-प्रचेतसः श्रीमद्-अष्ट-भुज-पुरुषम् ॥ २१३ ॥