ततः सुतराम् एव परमार्थिभिस् तादृशे गुराव् इत्य् आह—
यस्य साक्षाद् भगवति ज्ञान-दीप-प्रदे गुरौ ।
मर्त्यासद्-धीः श्रुतं तस्य सर्वं कुञ्जर-शौचवत् ॥
एष वै भगवान् साक्षात् प्रधान-पुरुषेश्वरः ।
योगेश्वरैर् विमृग्याङ्घ्रिर् लोको यं मन्यते नरम् ॥
[भा।पु। ७.१५.२६-२७]
एष श्री-कृष्ण-लक्षणोऽपि । ततः प्राकृत-दृष्टिर् न भगवत्-तत्त्व-ग्रहणे प्रमाणम् इति भावः ॥
॥ ७.१५ ॥ श्री-नारदो युधिष्ठिरम् ॥ २१२ ॥