अतः श्री-मन्त्र-गुरोर् आवश्यकत्वं सुतराम् एव । तद् एतत्-परमार्थ-गुर्व्-आश्रयो व्यवहारिक-गुर्व्-आदि-परित्यागेनापि कर्तव्य इत्य् आह—
गुरुर् न स स्यात् स्व-जनो न स स्यात्
पिता न स स्याज् जननी न सा स्यात् ।
दैवं न तत् स्यान् न पतिश् च स स्यान्
न मोचयेद् यः समुपेत-मृत्युम् ॥ [भा।पु। ५.५.१८]
समुपेतः सम्प्राप्तो मृत्युः संसारो येन, तम् । अत उक्तं श्री-नारदेन—
जुगुप्सितं धर्म-कृतेऽनुशासतः
स्वभाव-रक्तस्य महान् व्यतिक्रमः । [भा।पु। १.५.१५] इत्य्-आदि ।
तस्मात् तावद् एव तेषां गुर्व्-आदि-व्यवहारो, यावन् मृत्यु-मोचकं श्री-गुरु-चरणं नाश्रयत इत्य् अर्थः ॥
॥ ५.५ ॥ श्री-ऋषभदेवः स्व-पुत्रान् ॥ २१० ॥