२०९

शिक्षा-गुरोर् अप्य् अवश्यकत्वम् आहुः—

विजित-हृषीक-वायुभिर् अदान्त-मनस् तुरगं
य इह यतन्ति यन्तुम् अतिलोलम् उपाय-खिदः ।
व्यसन-शतान्विताः समवहाय गुरोश् चरणं
वणिज इवाज सन्त्य् अकृत-कर्ण-धरा जलधौ ॥ [भा।पु। १०.८७.३३]

ये गुरोश् चरणं समवहाय अतिलोलम्अतिलोलुपम् अदान्तम् अदमितं मन एव तुरगं विजितैर् इन्द्रियैः प्राणैश् च कृत्वा यन्तुं भगवद्-उन्मुखीकर्तुंप्रयतन्ते1 ते उपाय-खिदः, तेषु तेषु उपायेषु खिद्यन्ते । अतो व्यसन-शतान्विता भवन्ति । अत एव इह संसारे तिष्ठन्त्य् एव । हे अज! अकृत-कर्णधरा अस्वीकृत-नाविका जलधौ यथा तद्वत् । श्री-गुरु-प्रदर्शित-भगवद्-भजन-प्रकारेण भगवद्-वर्त्म-ज्ञाने सति तत्-कृपया व्यसनानभिभूतौ सत्यां शीघ्रम् एव मनो निश्चलं भवतीति भावः । अतो ब्रह्म-वैवर्ते—

गुरु-भक्त्या स मिलति स्मरणात् सेव्यते बुधैः ।
मिलितोऽपि न लभ्येत जीवैर् अहमिका-परैः ॥

श्रुतिश् च—

यस्य देवे परा भक्तिर् यथा देवे तथा गुरुः ।
तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ [श्वे।उ। ६.२३] इति ॥

॥ १०.८७ ॥ श्रुतयः ॥ २०९ ॥


  1. -अन्तर्मुखीकर्तुम् ↩︎