२०८

तत्र श्रवण-गुरु-संसर्गेणैव शास्त्रीय-विज्ञानोत्पत्तिः स्यात्, नान्यथेत्य् आह—

आचार्योऽरणिर् आद्यः स्याद् अन्ते-वास्य् उत्तरारणिः ।
तत्-सन्धानं प्रवचनं विद्या-सन्धिः सुखावहः ॥ [भा।पु। ११.१०.१२]

आद्योऽधरः । तत्-सन्धानं तयोर् मध्यमं मन्थन-काष्ठं । प्रवचनम् उपदेशः । विद्या शास्त्रोक्त-ज्ञानं तु सन्धौ भवोऽग्निर् इव । तथा च श्रुतिः—आचार्यः पूर्व-रूपम्[तै।उ। १.३.५] इत्य्-आदि । अत एव तद्-विज्ञानार्थं स गुरुम् एवाभिगच्छेत् [मु।उ। १.१.१२] इति, आचार्यवान् पुरुषो वेद [छा।उ।६.१४.२] इति, नैषा तर्केण मतिर् अपनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठा [क।उ। १.२.९] इति ॥

॥ ११.१० ॥ श्री-भगवान् ॥ २०८ ॥