२०७

मन्त्र-गुरुस् त्व् एक एवेत्य् आह—

लब्धानुग्रह आचार्यात् तेन सन्दर्शितागमः ।
महा-पुरुषम् अभ्यर्चेन् मूर्त्याभिमतयात्मनः ॥ [भा।पु। ११.३.४८]

अनुग्रहो मन्त्र-दीक्षा-रूपः । आगमो मन्त्र-विधि-शास्त्रम् । अस्यैकत्वम् एक-वचनत्वेन बोध्यते ।

बोधः कलुषितस् तेन दौरात्म्यं प्रकटीकृतम् ।
गुरुर् येन परित्यक्तस् तेन त्यक्तः पुरा हरिः ॥

इति ब्रह्म-वैवर्तादौ तत्-त्याग-निषेधात् तद्-अपरितोषेणैवान्यो गुरुः क्रियते । ततोऽनेक-गुरु-करणे पूर्व-त्याग एव सिद्धः । एतच् चापवाद-वचन-द्वारापि श्री-नारद-पञ्चरात्रे बोधितम्—

अवैष्णवोपदिष्टेन मन्त्रेण निरयं व्रजेत् ।
पुनश् च विधिना सम्यग् ग्राहयेद् वैष्णवाद् गुरोः ॥ इति ।1

॥ ११.३ ॥ श्री-आविर्होत्रो निमिम् ॥ २०७ ॥


  1. अवैष्णवोपदिष्टेन मन्त्रेण न परा गतिः ॥ अवैष्णवोपदिष्टं चेत् पूर्व-मन्त्र-वरं द्वयम् । पुनश् च विधिना सम्यक् वैष्णवाद् ग्राहयेद् गुरोः ॥ [पद्मप् ६.२२६.१-२] ↩︎