अथ श्रवण-गुरु-भजन-शिक्षा-गुर्वोः प्रायिकम् एकत्वम् इति तथैवेत्य् आह—
तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः ।
अमाययानुवृत्त्या यैस् तुष्येद् आत्मात्मदो हरिः ॥ [भा।पु। ११.३.२२]
तस्माद् गुरुं प्रपद्येत [भा।पु। ११.३.२१] इति पूर्वोक्तेस् तत्र श्रवण-गुरौ । गुरुर् एव आत्मा जीवनं दैवतं निजेष्ट-दैवततयाभिमतश् च यस्य, तथाभूतः सन् । अमायया निर्दम्भया, अनुवृत्त्या तद्-अनुगत्या शिक्षेत् । यैर् धर्मैः । आत्मा परमात्मा । भक्तेभ्य आत्म-प्रदः श्री-बलि-प्रभृतिभ्य इव । अस्य शिक्षा-गुरोर् बहुत्वम् अपि प्राग्वज् ज्ञेयम् ॥
॥ ११.३ ॥ श्री-प्रबुद्धो निमिम् ॥ २०६ ॥