२०५

अथ भजन-श्रद्धा—

यत्-पाद-सेवाभिरुचिस् तपस्विनाम्
अशेष-जन्मोपचितं मलं धियः ।
सद्यः क्षिणोत्य् अन्वहम् एधती सती
यथा पदाङ्गुष्ठ-विनिःसृता सरित् ॥
विनिर्धुताशेष-मनो-मलः पुमान्
असङ्ग-विज्ञान-विशेष-वीर्यवान् ।
यद्-अङ्घ्रि-मूले कृत-केतनः पुनर्
न संसृतिं क्लेश-वहां प्रपद्यते ॥ [भा।पु। ४.२१.३१-३२]

तपस्विनां संसार-तप्तानाम् । तत्-पाद-सम्बन्धस्यैवैष महिमेति दृष्टान्तेनाह—यथेति । असङ्गस् ततोऽन्यत्रानासक्तिस् तेन विज्ञान-विशेषो भगवतो नानाविर्भावत्वात् तेषां मध्ये कस्याप्य् आविर्भावस्य साक्षात्कारस् तद् एव वीर्यं विद्यते यस्य सः । यस्य अङ्घ्रि-मूले कृताश्रयः सन् ॥

॥ ४.२१ ॥ श्री-पृथु-राजः सभ्यान् ॥ २०४-२०५ ॥