२०४

तत्र रुचि-प्रधानानां श्रवणादिकम्—

तत्रान्वहं कृष्ण-कथाः प्रगायताम्
अनुग्रहेणाशृणवं मनोहराः ।
ताः श्रद्धया मेऽनुपदं विशृण्वतः
प्रिय-श्रवस्य् अङ्ग ममाभवद् रुचिः ॥ [भा।पु। १.५.२६] इत्य्-आद्य्-उक्त-प्रकारम् ।

विचार-प्रधानानां श्रवणं यथा चतुःश्लोक्य्-आदीनाम् । मननं यथा भगवान् ब्रह्म कार्त्स्न्येन [भा।पु। २.२.३४] इत्य्-आदौ ।

अथ तज्-जाता भगवति श्रद्धा, यथा—

अस्ति यज्ञ-पतिर् नाम केषाञ्चिद् अर्ह-सत्तमाः ।
इहामुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद् भुवः ॥
मनोर् उत्तानपादस्य ध्रुवस्यापि महीपतेः ।
प्रियव्रतस्य राजर्षेर् अङ्गस्यास्मत्-पितुः पितुः ॥
ईदृशानाम् अथान्येषाम् अजस्य च भवस्य च ।
प्रह्लादस्य बलेश् चापि कृत्यम् अस्ति गदाभृता ॥
दौहित्रादीन् ऋते मृत्योः शोच्यान् धर्म-विमोहितान् ।
वर्ग-स्वर्गापवर्गाणां प्रायेणैकात्म्य-हेतुना ॥ [भा।पु। ४.२१.२७-३०]

हे अर्ह-सत्तमाः ! यज्ञ-पतिर् नाम सर्व-कर्म-फल-दातृत्वेन श्रुति-प्रतिपादितः परमेश्वरः केषांचित् श्रुत्य्-अर्थ-तत्त्व-ज्ञानां मते तावद् अस्ति, तथापि विप्रतिपत्तेर् न तत्-सिद्धिर् इत्य् आशङ्क्य तत्र जगद्-वैचित्र्यान्यथानुपपत्ति-प्रमाणम् अप्य् उपोद्बलकम् इत्य् आह । इह प्रत्यक्षेण अमुत्रशास्त्रेण तद्वच् चेत्य् अनुमानेन च ज्योत्स्नावत्यः कान्तिमत्यो भुवो भोग-भूमयो देहाश् च क्वचिद् एवोपलभ्यन्ते, न सर्वत्रेति ।

अयं भावः—न वा जडस्य तत्-कर्मणस्1 तत्-तत्-फल-दातृत्वं घटते—फलम् अत उपपत्तेः [वे।सू। ३.२.३८] इति न्यायात् । न चार्वाग्-देवतानां स्वातन्त्र्यम्, अन्तर्यामि-श्रुतेः । न च कर्म-साम्ये फल-तारतम्यं क्वचिच् च तद्-असिद्धिः सम्भवति । अतः स्वतन्त्रेण परमेश्वरेण भाव्यम् ।

अत्र विद्वद्-अनुभवोऽपि प्रमाणम् इत्य् आह—मनोर् इति त्रिभिः । अस्मत्-पितुः पितुःपितामहस्य अङ्गस्य । प्रह्लाद-बली तदानीं शास्त्राद् एव ज्ञात्वा गणितौ । गदाभृता परमेश्वरेण कृत्यम् अस्ति, हृदये बहिर् अप्य् आविर्भूय तेषां मुहुः कृत्य-सम्पादनात् तेन यत् कृत्यं करणीयं तत् तेषाम् अस्तीत्य् अर्थः । तेषाम् एव तेन सह कृत्यम् अस्ति, नान्येषाम् इत्य् अर्थो वा । तद्-अन्यांस् तु निन्दितत्वेनाह—मृत्योर् दौहित्र्यादीन् वेण-प्रभृतीन् धर्म-विमोहितान्गदाभृच्-छब्देन तन्-नाम्ना प्रसिद्धात् श्री-विष्णोर् अन्यत्र परमेश्वरत्वं वारयति श्रुति-युक्ति-विद्वद्-अनुभवेषु । तं गदाभृतं विशिनष्टि—वर्गेति । वर्गोऽत्र त्रिवर्गः, स्वर्गो धर्मस्य फलम् । अपवर्गो मोक्षः । तेषाम् ऐकात्म्येन एक-रूपेण सर्वान्तर्गतेन हेतुना । तत्रापि प्रायेण प्रचुरेण हेतुना । तद् उक्तं स्कान्दे—

बन्धको भव-पाशेन भव-पाशाच् च मोचकः ।
कैवल्यदः परं ब्रह्म विष्णुर् एव सनातनः ॥ इति ॥


  1. न तावत् इन् प्लचे ओफ़् न वा जडस्य तत् (ग, च, ज, य, र) ↩︎