अत्र ब्रह्म-वैवर्ते विशेषः—
वक्ता स-रागो नीरागो द्विविधः परिकीर्तितः ।
स-रागो लोलुपः कामी तद् उक्तं हृन् न संस्पृशेत् ॥
उपदेशं करोत्य् एव न परीक्षां करोति च ।
अपरीक्ष्योपदिष्टं यल् लोक-नाशाय तद् भवेत् ॥
किं च—
कुलं शीलम् अथाचारम् अविचार्य परं गुरुम् ।
भजेत श्रवणाद्य्-अर्थी सरसं सार-सागरम् ॥
सरसत्वादिकं च व्यञ्जितं तत्रैवान्यत्र—
काम-क्रोधादि-युक्तोऽपि कृपणोऽपि विषादवान् ।
श्रुत्वा विकाशम् आयाति स वक्ता परमो गुरुः ॥ इति ।
एवं-भूत-गुरोर् अभावाद् युक्ति-भेद-बुभुत्सया बहून् अप्य् आश्रयन्ते केचित् । यथा—
न ह्य् एकस्माद् गुरोर् ज्ञानं सुस्थिरं स्यात् सुपुष्कलम् ।
ब्रह्मैतद् अद्वितीयं वै गीयते बहुध र्षिभिः ॥ [भा।पु। ११.९.३१]
स्पष्टम् ॥ ११.९ ॥ श्री-दत्तात्रेयो यदुम् ॥ २०३ ॥