२०२

त एते हि वैष्णवाः सन्तो महत्त्वेन सन्-मात्रत्वेन च विभिद्य निर्दिष्टाः । सन्-मात्र-भेद-तारतम्यं चात्र यद् अविविक्तं तद्-भक्ति-भेद-निरूपणे पुरतो विवेचनीयम् । अन्ये तु स्व-गोष्ठ्य्-अपेक्षया वैष्णवाः ।

तत्र कर्मिषु तद्-अपेक्षया । यथा स्कान्दे मार्कण्डेय-भगीरथ-संवादे—

धर्मार्थं जीवितं येषां सन्तानार्थं च मैथुनम् ।
पचनं विप्र-सुखार्थं ज्ञेयास् ते वैष्णवा नराः ॥इत्य्-आदि ।

अत्र श्री-विष्ण्व्-आज्ञा-बुद्ध्यैव तत् तत् क्रियत इति वैष्णव-पदेन गम्यते । श्री-विस्णु-पुराणे च—

न चलति निज-वर्ण-धर्मतो यः
सम-मतिर् आत्म-सुहृद्-विपक्ष-पक्षे ।
न हरति न हन्ति किञ्चिद् उच्चैः
स्थित-मनसं तम् अवेहि विष्णु-भक्तम् ॥ [वि।पु। ३.७.२०] इति ।

तद्-अर्पणे तु सुतराम् एव वैष्णवत्वम् । यथा पाद्मे पाताल-खण्डे वैशाख-माहात्म्ये—

जीवितं यस्य धर्मार्थे धर्मो हर्य्-अर्थएव च ।
अहो-रात्राणि पुण्यार्थे तं मन्ये वैष्णवं जनम् ॥ [प।पु। ५.९४.८] इति ।

तथैव शैवेषु तद्-अपेक्षया, यथा बृहन्-नारदीये—

शिवे च परमेशाने विष्णौ च परमात्मनि ।
सम-बुद्ध्या प्रवर्तन्ते ते वै भागवतोत्तमाः ॥ [ना।प। १.५.७२] इति ।

शैव-गोष्ठीषु भागवतोत्तमत्वं तत्रैव प्रसिद्धम् इति तथोक्तम् । वैष्णव-तन्त्रे तु तन्-निन्दैव—

यस् तु नारायणं देवं ब्रह्म-रुद्रादि-दैवतैः ।
समत्वेनैव वीक्षेत स पाषण्डी भवेद् ध्रुवम् ॥ इति ।

तद् एवं तेषां बहु-भेदेषु सत्सु तेषाम् एव प्रभाव-तारतम्येन कृपा-तारतम्येन भक्ति-वासना-भेद-तारतम्येन सत्-सङ्गात् काल-शैघ्र्य-स्वरूप-वैशिष्ट्याभ्यां भक्तिर् उदयते । एवं ज्ञानि-सङ्गाच् च ज्ञानं ज्ञेयम् । तत्र यद्यप्य् अकिञ्चना भक्तिर् एवाभिधेयेति तत्-कारणत्वेन तद्-भक्त-सङ्ग एवाभिधेये सति भक्तोऽपि स एव लक्षितव्यः, तथापि तत्-तत्-परीक्षार्थम्1 एव तत्-तद्-अनुवादः क्रियते ।

तत्र प्रथमं तावत् तत्-तत्-सङ्गाज् जातेन तत्-तच्-छ्रद्धा-तत्-तत्-परम्परा-कथा-रुच्य्-आदिना2 जात-भगवत्-साम्मुख्यस्य तत्-तद्-अनुषङ्गेनैव तत्-तद्-भजनीये भगवद्-आविर्भाव-विशेषे तद्-भजन-मार्ग-विशेषे च रुचिर् जायते । ततश् च विशेष-बुभुत्सायां सत्यां तेष्व् एकतोऽनेकतो वा श्री-गुरुत्वेनाश्रिताच् छ्रवणं क्रियते । तच् चोपक्रमोप-संहारादिभिर् अर्थावधारणम्। पुनश् चासम्भावना-विपरीत-भावना-विशेषवता स्वयं तद्-विचार-रूपं मननम् अपि क्रियते । ततो भगवतः सर्वस्मिन्न् एवाविर्भावे तथाविधोऽसौ सदा सर्वत्र विराजत इत्य् एवं-रूपा श्रद्धा जायते । तत्रैकस्मिंस् त्व् अनया प्रथम-जातया रुच्या सह निजाभीष्ट-दान-सामर्थ्याद्य्-अतिशयवत्ता-निर्धारण-रूपत्वेन सैव श्रद्धा समुल्लसति । तत्र यद्यप्य् एकत्रैवातिशयिता-पर्यवसानं सम्भवति, न तु सर्वत्र, तथापि केषांचित् ततो विशिष्टस्याज्ञानाद् अन्यत्रापि तथा-बुद्धि-रूपा श्रद्धा सम्भवति । एवं भजन-मार्ग-विशेषश् च व्याख्यातव्यः । तद् एवं सिद्धे, ज्ञाने विज्ञानार्थं निदिध्यासन-लक्षण-तत्-तद्-उपासना-मार्ग-भेदोऽनुष्ठीयते । इत्य् एवं विचार-प्रधानानां मार्गो दर्शितः ।

रुचि-प्रधानानां तु न तादृग्-विचारापेक्षा जायते । किन्तु साधु-सङ्ग-लीला-कथन-श्रवण-रुचि-श्रद्धा-श्रवणाद्य्-आवृत्ति-रूप एवासौ मार्गो, यथा—शुश्रूषोः श्रद्दधानस्य [भा।पु। १.२.१६] इत्य्-आदिना पूर्वं दर्शितः, सतां प्रसङ्गान् मम वीर्य-संविदः [भा।पु। ३.२५.२२] इत्य्-आदौ च द्रष्टव्यः । प्रीति-लक्षण-भक्तीच्छूनां तु रुचि-प्रधान-मार्ग एव श्रेयान्, नाजात-रुचीनाम् इव विचार-प्रधानः । यथोक्तं प्रह्लादेन—

नैते गुणा न गुणिनो महद्-आदयो ये
सर्वे मनः-प्रभृतयः सहदेव-मर्त्याः ।
आद्य्-अन्तवन्त उरुगाय विदन्ति हि त्वाम्
एवं विमृश्य3 सुधियो विरमन्ति शब्दात् ॥
तत् तेऽर्हत्तम नमः-स्तुति-कर्म-पूजाः
कर्म-स्मृतिश् चरणयोः श्रवणं कथायाम् ।
संसेवया त्वयि विनेति षड्-अङ्गया किं
भक्तिं जनः परमहंस-गतौ लभेत ॥ [भा।पु। ७.९.४९-५०] इति ।

कर्म परिचर्या । कर्म-स्मृतिर् लीला-स्मरणम् । चरणयोर् इति सर्वत्रान्वितं भक्ति-व्यञ्जकम् ।

तद् एतद् उभयस्मिन्न् अपि तद्-भजन-विधि-शिक्षा-गुरुः प्राक्तनः श्रवण-गुरुर् एव भवति, तथाविधस्य प्राप्तत्वात् । प्राक्तनानां बहुत्वेऽपि प्रायस् तेष्व् एवान्यतरोऽभिरुचितः, पूर्वस्माद् एव हेतोः । श्री-मन्त्र-गुरुस् त्व् एक एव निषेत्स्यमानत्वाद् बहूनाम् ।

अथात्र प्रमाणानि—तत्र तद्-आविर्भाव-विशेषे रुचिः—महा-पुरुषम् अभ्यर्चेन् मूर्त्याभिमतयात्मनः [भा।पु। ११.३.४८] इत्य्-आदौ श्रीमद्-आविर्होत्रादिनाभिप्रेता । भजन-विशेष-रुचिश् च—

वैदिकस् तान्त्रिको मिश्र इति मे त्रि-विधो मखः ।
त्रयाणाम् ईप्सितेनैव विधिना मां समर्चयेत् ॥ [भा।पु। ११.२७.७]

इत्य्-आदौ श्री-भगवताभिप्रेता । अथ श्रवण-गुरुम् आह—

तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ।
शाब्दे परे च निष्णातं ब्रह्मण्य् उपशमाश्रयम् ॥ [भा।पु। ११.३.२१]

शाब्दे ब्रह्मणि वेदे तात्पर्य-विचारेण, परे ब्रह्मणि भगवद्-आदि-रूपाविर्भावे तु अपरोक्षानुभवेन निष्णातं तथैव निष्ठां प्राप्तम् । यथोक्तं श्री-पुरञ्जनोपाख्यानाद्य्-उपसंहारे श्री-नारदेन—

स वै प्रियतमश् चात्मा यतो न भयम् अण्व् अपि ।
इति वेद स वै विद्वान् यो विद्वान् स गुरुर् हरिः ॥ [भा।पु। ४.२९.५१] इति ।

॥ ११.३ ॥ श्री-प्रबुद्धो निमिम् ॥ २०२ ॥


  1. ओन्ल्य् ओने तत् इन् (र) ↩︎

  2. -परस्पर- (क, ङ, ज), नेइथेर् इन् (र) ↩︎

  3. विविच्य ↩︎