२०१

अथ शुद्ध-दास्य-सख्यादि-भाव-मात्रेण योऽनन्यः, स तु सर्वोत्तम इत्य् आह—

ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश् चास्मि यादृशः ।
भजन्त्य् अनन्य-भावेन ते मे भक्ततमा मताः ॥ [भा।पु। ११.११.३३]

यावान् देश-कालाद्य्-अपरिच्छिन्नः । यश् च सर्वात्मा । यादृशः सच्-चिद्-आनन्द-रूपः । तं मां ज्ञात्वाज्ञात्वा वा ये केवलम् अनन्य-भावेन श्री-व्रजेश्वर-नन्दनत्वाद्य्-आलम्बनो यः स्वाभीप्सितो दास्यादीनाम् एकतरो भावः, तेनैव भजन्ति, न कदाचिद् अन्येन इत्य् अर्थः । ते तु मया भक्ततमा मताः । अत एव चतुर्थे श्री-योगेश्वरैर् अपि प्रार्थितम्—

प्रेयान् न तेऽन्योऽस्त्य् अमुतस् त्वयि प्रभो
विश्वात्मनीक्षेन् न पृथग् य आत्मनः ।
अथापि भक्त्येश तयोपधावताम्
अनन्य-वृत्त्यानुगृहाण वत्सल ॥ [भा।पु। ४.७.३८] इति ।

श्री-गीतासु—

ज्ञानं तेऽहं स-विज्ञानम् इदं वक्ष्याम्य् अशेषतः ।
यज् ज्ञात्वा नेह भूयोऽन्यज् ज्ञातव्यम् अवशिष्यते ॥ [गीता ७.२] इत्य् उक्त्वाह—
भूमिर् आपोऽनलो वायुः खं मनो बुद्धिर् एव च ।
अहंकार इतीयं मे भिन्ना प्रकृतिर् अष्टधा ॥
अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥
एतद्-योनीनि भूतानि सर्वाणीत्य् उपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा ॥
मत्तः परतरं नान्यत् किञ्चिद् अस्ति धनञ्जय ।
मयि सर्वम् इदं प्रोतं सूत्रे मणि-गणा इव ॥ [गीता ७.४-७] इति ।

प्रधानाख्य-जीवाख्य-निज-शक्ति-द्वारा जगत्-कारणत्वम्, तच्-छक्तिमयत्वेन जगतस् तद्-अनन्यत्वं, स्वस्य तु तयोः परत्वं तद्-आश्रयत्वं च वदन् निज-ज्ञानम् उपदिष्टवान्, प्रसङ्गेन जीव-स्वरूप-ज्ञानं च । स चैवम्भूतो ज्ञानीमत्-स्वरूप-मन्-महिमानुसन्धानकृत्त्वात् ज्ञानि-भक्तार्त-भक्तादीन्1 अतिक्रम्य मत्-प्रियो भवतीत्य् अप्य् अन्तेऽभिहितवान्—

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुर् अर्थार्थी ज्ञानी च भरतर्षभ ॥
तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थम् अहं स च मम प्रियः ॥
उदाराः सर्व एवैते ज्ञानी त्व् आत्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा माम् एवानुत्तमां गतिम् ॥ [गीता ७.१६-१८] इति ।

ततश् चायम् अर्थः [४.७.३८]—यस् त्वयि विश्वात्मन्य् आत्मनो जीवान् ईक्षेत् त्वच्-छक्तित्वाद् अनन्यत्वेनैव जानाति, न तु पृथक् स्वतन्त्रत्वेन ईक्षेत, अमुत अमुष्माद् यद्यपि ते प्रेयान् नास्ति, तथापि, हे वत्सल! हे भृत्य-प्रिय ! भृत्येश ! भावेन ये भजन्ति, तेषां या_अनन्या वृत्तिर्_ अव्यभिचारिणी निजा भक्तिः, तयैव अनुगृहाण । प्रस्तुतत्वेनास्मान् ज्ञानि-भक्तान् इति लभ्यत इति ।

अथ मूल-पद्ये ज्ञात्वाज्ञात्वा इत्य् अत्र ज्ञानाज्ञानयोर् हेयोपादेयत्वं निषिद्धम् । भक्ततमा इत्य् अत्र पूर्व-वाक्य-स्थ-सत्-पद-निर्देशमतिक्रम्य विशेषतो भक्त-पद-निर्देशाद् भक्तेः स्वरूपाधिक्यम् अत्रैव विवक्षितम् । ते मे मता इत्य् अत्र मम तु विशिष्टा सम्मतिर् अत्रैवेति सूचितम्, ईदृशानुक्त-चरत्वात् । अत एव प्रकरण-प्राप्तम् एक-वचन-निर्देशम् अप्य् अतिक्रम्य गौरवेणैव ये ते इति बहु-वचनं निर्दिष्टम् । ततः किम् उत तद्-भाव-सिद्ध-प्रेमाण इति भावः । एषां भाव-भजन-विवृतिर् अग्रे रागानुगा-कथने ज्ञेया ॥

॥ ११.११ ॥ श्री-भगवान् ॥ १९९-२०१ ॥


  1. ज्ञानि-भक्तार्त-भक्तादीन् इन् य, र ओन्ल्य्, एल्सेwहेरे ओन्ल्य् ज्ञानि-भक्तादीन्। ↩︎