मध्यम-मिश्र-साक्षाद्-भक्ति-साधकम्1 आह—
आज्ञायैवं गुणान् दोषान्
मयादिष्टान् अपि स्वकान् ।
धर्मान् सन्त्यज्य यः सर्वान्
मां भजेत् स च सत्तमः 2 ॥
[भा।पु। ११.११.३२]
टीका च—
मया वेद-रूपेण आदिष्टानपि
स्व-धर्मान् सन्त्यज्य यो मां भजेत,
सोऽप्य् एवं पूर्वोक्तवत् सत्तमः ।किम् अज्ञानाद् नास्तिक्याद् वा ?
न । धर्माचरणे सत्त्व-शुद्ध्य्-आदीन् गुणान्,
विपक्षे नरक-पातादीन् दोषांश् चाज्ञाय ज्ञात्वापि
मद्-ध्यान-विक्षेपकतया
मद्-भक्त्यैव सर्वं भविष्यतीति दृढ-निश्चयेनैव
धर्मान् सन्त्यज्य ।
यद् वा, भक्ति-दार्ढ्येन निवृत्ताधिकारतया सन्त्यज्य ॥
इत्य् एषा ।
यथा हायशीर्ष-पञ्चरात्रोक्त-नारायण-व्यूह-स्तवे—
ये त्यक्त-लोक-धर्मार्था
विष्णु-भक्ति-वशं गताः ।
ध्यायन्ति परमात्मानं
तेभ्योऽपीह नमो नमः ॥
इति ।
अत्र त्व् एवं व्याख्या—
यदि च स्वात्मनि तत्-तद्-गुण-योगाभावः,
तथाप्य् एवं पूर्वोक्त-प्रकारेण
गुणान् कृपालुत्वादीन्
दोषांस् तद्-विपरीतांश्
चाज्ञाय हेयोपादेयत्वेन निश्चित्यापि,
यो मया तेषु गुणेषु मध्ये
तत्र आदिष्टानपि स्वकान् नित्य-नैमित्तिक-लक्षणान् सर्वान् एव वर्णाश्रम-विहितान् धर्मान्
तद्-उपलक्षणं ज्ञानम् अपि
मद्-अनन्य-भक्ति-विघातकतया सन्त्यज्य मां भजेत्, स च सत्तमः ।
च-कारात् पूर्वोक्तोऽपि सत्तम
इत्य् उत्तरस्य तत्-तद्-गुणाभावेऽपि पूर्व-साम्यं बोधयति ।
ततो यस् तु तत्-तद्-गुणान् लब्ध्वा
धर्म-ज्ञान-परित्यागेन मां भजति केवलं,
स तु परम-सत्तम एवेति व्यक्त्यानन्य-भक्तस्य पूर्वत आधिक्यं दर्शितम् ।
अत्र अद्वेष्टा सर्व-भूतानां [गीता १२.१२] इत्य्-आदि श्री-गीता-द्वादशाध्याय-प्रकरणम् अप्य् अनुसन्धेयम् । सत्तम इत्य् अनेन तद् अवरत्रापि सत्तरत्वं सत्त्वम्3 अप्य् अस्तीति दर्शितम् । अस्तु तावत् सदाचारस्य तद्-भक्तस्य सत्त्वम्, अनन्य-देवता-भक्तत्व-मात्रेणापि दुराचारस्यापि सत्त्वान्य-पर्यायं साधुत्वं विधीयते, अपि चेत् सुदुराचारः [गीता ९.३०] इत्य्-आदौ । अत्र च साधु-सङ्ग-प्रस्तावे यत् तादृशं लक्षणं नोत्थापितं, तत् खलु तादृश-सङ्गस्य भक्त्य्-उन्मुखेऽनुपयुक्तताभिप्रायेण । यथोक्तं श्री-प्रह्लादेन—सङ्गेन साधु-भक्तानाम् [भा।पु। ७.७.२५] इति । साधुर् अत्र सद्-आचारः ।
तद् एवम् ईश्वर-बुद्ध्या विधि-मार्ग-भक्तयोस् तारतम्यम् उक्तम् ।तत्रैवोत्तरस्यानन्य-त्वेन श्रेष्ठत्वं दर्शितम् । तत्रैवार्चन-मार्गे त्रिविधत्वं लभ्यते पाद्मोत्तर-खण्डात् । तत्र महत्त्वं तापादि-पञ्च-संस्कारी [प।पु। ६.२५३.२७] इत्य्-आदौ ।
मध्यमत्वम्—
तापं पुण्ड्रं तथा नाम मन्त्रो यागश् च पञ्चमः ।
अमी पञ्चैव संस्काराः परमैकान्ति-हेतवः ॥ इत्य् अत्र ।
कनिष्ठत्वं—
शङ्ख-चक्राद्य्-ऊर्ध्व-पुण्ड्र-धारणाद्य्-आत्म-लक्षणम् ।
तन्-नमस्करणं चैव वैष्णवत्वम् इहोच्यते ॥ इत्य् अत्र ॥