१९९

तद् एवम् उपदिष्टा भागवत-सत्सु मूर्च्छित-कषायादयो महद्-भेदाः। भागवत-सन्मात्र-भेदाश् च तत्-सन्-मात्र-भेदेषु, अर्चायाम् एव हरये [भा।पु। ११.२.४५] इत्य्-आदिना तत्-तद्-गुणाविर्भाव-तारतम्याल् लब्ध-तारतम्याः कतिचिद् दर्शिताः ।

अथ साधन-तारतम्येनापि तेषां तारतम्यम् आह पञ्चभिः । तत्रावरं मिश्र-भक्ति-साधकम् आह त्रिभिः—

कृपालुर् अकृत-द्रोहस् तितिक्षुः सर्व-देहिनाम् ।
सत्य-सारोऽनवद्यात्मा समः सर्वोपकारकः ॥
कामैर् अहत-धीर् दान्तो मृदुः शुचिर् अकिञ्चनः ।
अनीहो मित-भुक् शान्तः स्थिरो मच्-छरणो मुनिः ॥
अप्रमत्तो गभीरात्मा धृति-माञ् जित-षड्-गुणः ।
अमानी मान-दः कल्यो मैत्रः कारुणिकः कविः ॥ [भा।पु। ११.११.२९-३१]

टीका च—कृपालुः पर-दुःखासहिष्णुः । सर्व-देहिनां केषाञ्चिद् अप्य् अकृत-द्रोहःतितिक्षुः क्षमावान् । सत्यं सारं स्थिरं बलं वा यस्य सः । अनवद्यात्मा असूयादि-रहितः । सुख-दुःखयोः समः । यथा-शक्ति सर्वेषाम् उपकारकःकामैरहत-धीर् विषयैर् अक्षुभित-चित्तः । दान्तः संयत-बाह्येन्द्रियः । मृदुर् अकठिन-चित्तः । शुचिः सदाचारः । अकिञ्चनः अपरिग्रहः । अनीहो दृष्ट-क्रिया-शून्यः । मितभुक् लघ्व्-आहारः । शान्तो नियतान्तः-करणः स्थिरः स्व-धर्मे । मच्-छरणो मद्-एकाश्रयः । मुनिर् मनन-शीलः । अप्रमत्तः सावधानः । गभीरात्मा निर्विकारः । धृतिमान् विपद्य् अप्य् अकृपणः । जित-षड्-गुणः शोक-मोहौ जरा-मृत्यू क्ष्त्-पिपासे षड्-ऊर्मय एते जिता येन सः । अमानी न मानाकाङ्क्षी । अन्येभ्यो मानदः । कल्यः पर-बोधने दक्षः । मैत्रः अवञ्चकः । कारुणिकः करुणयैव प्रवर्तमानो, न तु दृष्ट-लोभेन । कविः सम्यक् ज्ञानी ॥ इत्य् एषा ।

अत्र मच्-छरण इति विशेष्यम् । उत्तरत्र स च सत्तम इति च-कारेण तु पूर्वोक्तो यथा सत्तमः, तथायम् अपि सत्तम इति व्यक्तिर् एवम् एवं-भूतो मच्-छरणः सत्तम इत्य् आक्षिप्यते ॥