तथा—
विसृजति हृदयं न यस्य साक्षाद्
धरिर् अवशाभिहितोऽप्य् अघौघ-नाशः ।
प्रणय-रशनया धृताङ्घ्रि-पद्मः
स भवति भागवत-प्रधान उक्तः ॥ [भा।पु। ११.२.५५]
टीका च—उक्त-समस्त-लक्षण-सारम् आह—विसृजतीति । हरिर् एव स्वयं साक्षाद् यस्य हृदयं न विसृजति न मुञ्चति । अवशेनाप्य् अभिहित-मात्रोऽप्य् अघौघं नाशयति यः सः । तत् किं न विसृजति ? यतः प्रणय-रशनया धृतं हृदये बद्धम् अङ्घ्रि-पद्मं यस्य स भागवत-प्रधान उक्तो भवति ॥इत्य् एषा ॥
अत्र कामादीनाम् असम्भवे हेतुः—साक्षाद् इति पदम्, तद्-उत्तर-कालत्वात् साक्षात्कारस्य । तथा हरिर् अवशाभिहितोऽपि इत्य्-आदिना यत् तादृश-प्रणयवांस् तेनानेन तु सर्वदा परमावेशेनैव कीर्त्यमानः सुतराम् एवाघौघ-नाशः स्याद् इत्य् अभिहितम् । उक्तं च—एतन् निर्विद्यमानानाम् इच्छताम् अकुतो-भयम् [भा।पु। २.१.११] इत्य्-आदि । तत उभयथैव तेषाम् अघ-संस्कारोऽपि न स्थातुम् इष्ट इति ध्वनितम् ।
अनेन वाचिक-लिङ्गम् अपि निर्दिश्य यद् ब्रूते [भा।पु। ११.२.४४] इत्य् अस्योत्तरम् उक्तम् । प्रकरणेऽस्मिन् गृहीत्वापि [भा।पु। ११.२.४८] इत्य्-आदीनाम् उत्तम-भागवत-लक्षण-पद्यानाम् अमीषाम् अपृथक् पृथक् च वाक्यत्वं ज्ञेयम्, तथाभूत-भगवद्-वशीकारवति भागवतोत्तमे तत्-तल्-लक्षणानाम् अन्तर्-भावात्, क्वचित् द्वित्रादि-मात्र-लक्षण-दर्शनाच् च ।
तत्रापृथग्-वाक्यतायाम् एकैक-वाक्य-गतेनैकैकेनैव लक्षणेनायम् एव सर्व-भूतेषु[११.२.४५]इत्य्-आद्य्-उक्तो महा-भागवतो लक्ष्यते । तत्-तद्-धर्म-हेतुत्वेन तु विसृजति [११.२.५५] इत्य्-आदिना सर्व-लक्षण-सारोपन्यासः । या च तत्रापि स्मृत्या हरेर्[११.२.४९]इत्य्-आदिना हेतुत्वेन स्मृतिर् उक्ता, तस्या एव विवरणम् इदम् अन्तिम-वाक्यम् इति ज्ञेयम् । तत्रैकेनैव वाक्येन कृतेऽपि भागवतोत्तम-लक्षणे स्पष्टीकरणार्थम् एवान्यद् वाक्यम् इति समर्थनीयम् । अत एव पृथक् पृथग् भागवतोत्तम इत्य्-आद्य्-अनुवादोऽपि सङ्गच्छते ।
पृथग्-वाक्यतायां यत्र साक्षाद्-भगवत्-सम्बन्धो न श्रूयते । तत्र भागवत-पद-बलेनैव प्रकरण-बलेनैव वा ज्ञेयः । पूर्वोत्तर-पद्य-स्थ-स्मृत्येत्य्-आदि-पदं वा योजनीयम् । तथात्र पक्षे चापेक्षिकम् एवान्यत्र भागवतोत्तमत्वम् । तत्रोत्तरोत्तर-श्रैष्ठ्य-क्रमोऽयम्—अर्चायाम् एव[४७] इति, न यस्य जन्म-कर्माभ्याम्[५१] इति । न यस्य स्वः परः[५२] इति, गृहीत्वापीन्द्रियैः[४८] इति, देहेन्द्रिय-प्राण[४९] इति ।
अस्य संस्कारोऽस्ति । किन्तु तेन विमोहो न स्याद् इति मूर्च्छित-संस्कारोऽयं जात-नवीन-प्रेमाङ्कुरः स्यात् । तथा न काम-कर्म-बीजानाम् इत्य् अस्यैव विवरणं—त्रिभुवन-विभव-हेतवेऽपि[५३] इति । इयम् एव नैष्ठिकी भक्तिर् ध्यानाख्या ध्रुवानुस्मृतिर् इत्य् उच्यते । अस्य प्रेमाङ्कुरोऽप्य् अनाच्छाद्यतया जातोऽस्ति । अन्यथा तादृश-स्मरण-सातत्य-भावः स्यात् । अयं हि निर्धूत-कषायो निरूद्ःअ-प्रेमाङ्कुर इति लभ्यते । अत ऊर्ध्वं साक्षात्-प्रेम-जन्मतः ईश्वरे तद्-अधीनेषु[४६] इति । अस्य मैत्र्य्-आदिकं त्रयम् अपि भक्ति-हेतुकम् एवेति न कषाय-स्थितिर् अवगन्तव्या । निर्धूत-कषाय-महा-प्रेम-सूचकस्य सर्व-भूतेषु[४५] इत्य् अस्य तु विवरणं—विसृजति इति ।
तापादि-पञ्च-संस्कारी नवेज्या-कर्म-कारकः ।
अर्थ-पञ्चक-विद् विप्रो महा-भागवतः स्मृतः ॥
इति पाद्मोत्तर-खण्ड-वचनम् [६.२५३.२७] ।
महत्त्वं तु अर्चन-मार्ग-पराणां मध्य एव ज्ञेयम्, असिद्ध-प्रेमत्वात् । अत्र _तापादि-पञ्च-संस्कारादि_तापः पुण्ड्रं तथा नाम [प।पु। ६.२२६.६] इत्य्-आदिना तत्रैव दर्शितम् ।
नवेज्या-कर्म-कारकत्वं चानेन वचनेन दृश्यते—
अर्चनं मन्त्र-पठनं योगो यागो हि वन्दनम् ।
नाम-सङ्कीर्तनं सेवा तच्-चिह्नेर् अङ्कनं तथा ॥
तदीयाराधनं चेज्या नवधा भिद्यते शुभे ।
नव-कर्म-विधानेज्या विप्राणां सततं स्मृता ॥ इति ।
अर्थ-पञ्चक-वित्त्वं तु—(१) उपास्यः श्री-भगवान्, (२) तत् परमं पदं, (३) तद्-द्रव्यं, (४) तन्-मन्त्रः, (५) जीवात्मा चेति पञ्च-तत्त्व-ज्ञातृत्वम् । तच् च श्री-हायशीर्षे विवृतं सङ्क्षिप्य लिख्यते—
(१) एक एवेश्वरः कृष्णः सच्-चिद्-आनन्द-विग्रहः ।
पुण्डरीक-विशालाक्षः कृष्ण-च्छुरित-मूर्धजः ॥
वैकुण्ठाधिपतिर् देव्या लीलया चित्-स्वरूपया ।
स्वर्ण-कान्त्या विशालाक्ष्या स्वभावाद् गाढम् आश्रितः ॥
नित्यः सर्वगतः पूर्णो व्यापकः सर्व-कारणम् ।
वेद-गुह्यो गभीरात्मा नाना-शक्त्य्-उदयो नरः ॥इत्य्-आदि ।
(२) स्थान-तत्त्वम् अतो वक्ष्ये प्रकृतेः परम् अव्ययम् ।
शुद्ध-सत्त्व-मयं सूर्य-चन्द्र-कोटि-सम-प्रभम् ॥
चिन्तामणि-मयं साक्षात् सच्-चिद्-आनन्द-लक्षणम् ।
आधारं सर्व-भूतानां सर्व-प्रलय-वर्जितम् ॥ इत्य्-आदि ।
(३) द्रव्य-तत्त्वं शृणु ब्रह्मन् प्रवक्ष्यामि समासतः ।
सर्व-भोग-प्रदा यत्र पादपाः कल्प-पादपाः ॥
भवन्ति तादृशा वल्ल्यस् तद्-भवं चापि तादृशम् ।
गन्ध-रूपं स्वादु-रूपं द्रव्यं पुष्पादिकं च यत् ॥
हेयांशानाम् अभावाच् च रस-रूपं भवेद् धि तत् ।
त्वग्-बीजं चैव हेयांशं कठिनांशं च यद् भवेत् ॥
सर्वं तद् भौतिकं विद्धि न ह्य् अभूतमयं च तत् ।
रसस्य योगतो ब्रह्मन् भौतिकं स्वादुवद् भवेत् ॥
तस्मात् साध्यो रसो ब्रह्मन् रसः स्याद् व्यापकः परः ।
रसवद् भौतिकं द्रव्यम् अत्र स्याद् रस-रूपकम् ॥ इति ।
(४) वाच्यत्वं वाचकत्वं च देव-तन्-मन्त्रयोर् इह ।
अभेदेनोच्यते ब्रह्मंस् तत्त्वविद्भिर् विचारितः ॥ इत्य्-आदि ।
(५) मरुत्-सागर-संयोगे तरङ्गात् कणिका यथा ।
जायन्ते तत्-स्वरूपाश् च तद्-उपाधि-समावृताः ॥
आश्लेषाद् उभयोस् तद्वद् आत्मनश् च सहस्रशः ।
सञ्जाताः सर्वतो ब्रह्मन् मूर्तामूर्त-स्वरूपतः ॥ इत्य्-आद्य् अपि ।
किन्तु श्री-भगवद्-आविर्भावादिषु स्व-स्वोपासना-शास्त्रानुसारेणापरोऽपि विशेषः1 कश्चिज् ज्ञेयः। जीव-निरूपणं चेदम्—न घटत उद्भवः [भा।पु। १०.८७.३१] इत्य्-आद्य्-अनुसारेणोपाधि-सहितम् एव कृतम् । निरुपाधिकं तु—
विष्णु-शक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा ।
अविद्या-कर्म-संज्ञान्या तृतीया शक्तिर् इष्यते ॥
[वि।पु। ६.७.६१] इति विष्णु-पुराणानुसारेण ।
तथा—
अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् ।
जीव-भूतां महा-बाहो ययेदं धार्यते जगत् ॥ [गीता ७.५] इति ।
ममैवांशो जीव-लोके जीव-भूतः सनातनः [गीता १५.७] इति च गीतानुसारेण, तथा—
यत् तटस्थं तु चिद्-रूपं स्व-संवेद्याद् विनिर्गतम् ।
रञ्जितं गुण-रागेण स जीव इति कथ्यते ॥
इति श्री-नारद-पञ्चरात्रानुसारेण ज्ञेयम् ॥
॥ ११.२ ॥ हरि-योगेश्वरो निमिम् ॥ १८७-१९८ ॥
-
भेदः (ग, च, ज, य) ↩︎