१९७

अपि च विषयाभिसन्धिना चलनं कामेनातिसन्तापे सति भवेत्, स तु भगवत्-सेवा-निर्वृतौ न सम्भवतीत्य् आह—

भगवत उरु-विक्रमाङ्घ्रि-शाखा-
नख-मणि-चन्द्रिकया निरस्त-तापे ।
हृदि कथम् उपसीदतां पुनः स
प्रभवति चन्द्र इवोदितेऽर्क-तापः ॥ [भा।पु। ११.२.५४]

उरु-विक्रमौ च ताव् अङ्घ्री । तयोः शाखा अङ्गुलयः । चन्द्रिका ताप-हारिणी दीप्तिः । तापः कामादि-सन्तापः ॥