किं च—
त्रि-भुवन-विभव-हेतवेऽप्य् अकुण्ठ-
स्मृतिर् अजितात्म-सुरादिभिर् विमृग्यात् ।
न चलति भगवत्-पदारविन्दाल्
लव-निमिषार्धम् अपि यः स वैष्णवाग्र्यः ॥ [भा।पु। ११.२.५३]
अचलनत्वे1 हेतुः—त्रिभुवनेति । तत्र हेतुः—अजिते हराव् एव आत्मा येषां तैर् ब्रह्मेश-प्रभृतिभिः सुरादिभिर् अपि विमृग्याद् दुर्लभाद् इत्य् अर्थः ॥
-
अचलने (र्र्) ↩︎