तथा—
न यस्य स्वः पर इति वित्तेष्व् आत्मनि वा भिदा ।
सर्व-भूत-सुहृत्****शान्तः1 स वै भागवतोत्तमः ॥ [भा।पु। ११.२.५२]
वित्तेषु ममतास्पद-मात्रेषु स्वीयं परकीयम् इति, आत्मनि स्वः पर इति । अत्र वित्तवद् आत्मनि च स्व-पक्षपात-मात्रं निषिध्यते, न व्यक्ति-भेदः ।
[तथोक्तं स्कान्दे मार्कण्डेय-भगीरथ-संवादे—
पर-दुःखेनात्म-दुःखं मन्यन्ते ये नृपोत्तम ।
भगवद्-धर्म-निरतास् ते नरा वैष्णवोत्तमाः ॥][^२०६]
-
-समः ↩︎