तथा—
न यस्य जन्म-कर्मभ्यां न वर्णाश्रम-जातिभिः ।
सज्जतेऽस्मिन्न् अहम्-भावो देहे वै स हरेः प्रियः ॥ [भा।पु। ११.२.५१]
जन्म सत्-कुलम् । कर्म तप-आदि । जातयः अनुलोमजा मूर्धाभिषिक्तादयः । एताभिर् यस्यास्मिन् देह अहम्भावो न सज्जते, किन्तु भगवत्-सेवौपयिक-साध्य एव देहे सज्जत इत्य् अर्थः, स हरेः प्रियो भागवतोत्तम इति पूर्वेणान्वयः, प्रकरणार्थत्वात् । हरेः प्रिय इति भागवत-मात्र-वाचिभागवतत्वाद् एव ॥