तथा— न काम-कर्म-बीजानां यस्य चेतसि सम्भवः । वासुदेवैक-निलयः स वै भागवतोत्तमः ॥ [भा।पु। ११.२.५०] बीजानि वासनाः । वासुदेवैक-निलयो वासुदेव-मात्राश्रयः ॥