अथ केवल-मानस-लिङ्गैर् आह यावत्-प्रकरणम्—
देहेन्द्रिय-प्राण-मनो-धियां यो
जन्माप्यय-क्षुद्-भय-तर्ष-कृच्छ्रैः ।
संसार-धर्मैर् अविमुह्यमानः
स्मृत्या हरेर् भागवत-प्रधानः ॥ [भा।पु। ११.२.४९]
यो हरेः स्मृत्या देहादीनां संसार-धर्मैर् जन्माप्ययादिभिर् विमुह्यमानोन भवति स भागवत-प्रधानः। उक्तं च श्री-गीतासु—
येषां त्व् अन्त-गतं पापं जनानां पुण्य-कर्मणाम् ।
ते द्वन्द्व-मोह-निर्मुक्ता भजन्ते मां दृढ-व्रताः ॥ [गीता ७.२८] इति ॥