१९१

अथ टीका—पुनर् अष्टभिः श्लोकैर् अभ्यर्हितत्वाद् उत्तमस्यैव लक्षणान्य् आह—गृहीत्वापि॥ इत्य् एषा । तथा हि—

गृहीत्वापीन्द्रियैर् अर्थान् यो न द्वेष्टि न हृष्यति ।
विष्णोर् मायाम् इदं पश्यन् स वै भागवतोत्तमः ॥ [भा।पु। ११.२.४८]

पूर्वोक्त-प्रकारेण तद्-आविष्ट-चित्तो न गृह्णाति तावद्इन्द्रियैर् अर्थान्गृहीत्वापि इत्य् अपि-शब्दार्थः । इदं विश्वं मायां बहिरङ्ग-शक्ति-विलासत्वाद् धेयम् इत्य् अर्थः । अत्रापि कायिक-मानसयोः साङ्कर्यम् ॥