१९०

अथ भगवद्-धर्माचरण-रूपेण कायिकेन किञ्चिन् मानसेन च लिङ्गेन कनिष्ठं लक्षयति—

अर्चायाम् एव हरये पूजां यः श्रद्धयेहते ।
न तद्-भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ [भा।पु। ११.२.४७]

अर्चायां प्रतिमायाम् एव, न तद्-भक्तेषु, अन्येषुच सुतरां न, भगवत्-प्रेमाभावद् भक्त-माहात्म्य-ज्ञानाभावात् सर्वादर-लक्षण-भक्त-गुणानुदयाच् च । स प्राकृतः प्रकृतिः प्रारम्भोऽधुनैव प्रारब्ध-भक्तिर् इत्य् अर्थः । इयं च श्रद्धा न शास्त्रार्थावधारण-जाता ।

यस्यात्म-बुद्धिः कुणपे त्रि-धातुके
स्व-धीः कलत्रादिषु भौम इज्य-धीः ।
यत्-तीर्थ-बुद्धिः सलिले न कर्हिचिज्
जनेष्व् अभिज्ञेषु …[भा।पु। १०.८४.१३] इत्य्-आदि शास्त्राज्ञानात् ।

तस्माल् लोक-परम्परा-प्राप्तैवेति पूर्ववत् । अतश् चाजात-प्रेमाशास्त्रीय-श्रद्धा-युक्तः साधकस् तु मुख्यो कनिष्ठो ज्ञेयः ॥