१८८

तत्रोत्तरं श्री-हविर् उवाच—

सर्व-भूतेषु यः पश्येद् भगवद्-भावम् आत्मनः ।
भूतानि भगवत्य् आत्मन्य् एष भागवतोत्तमः ॥ [भा।पु। ११.२.४५]

तत्र तत्-तद्-अनुभव-द्वारावगम्येन मानस-लिङ्गेन महा-भागवतं लक्षयति—सर्व-भूतेष्व् इत्य्-आदि । एवं-व्रतः स्व-प्रिय-नाम-कीर्त्या जातानुरागो द्रुत-चित्त उच्चैः [भा।पु। ११.२.३८] इति श्री-कवि-वाक्योक्त-रीत्या यश् चित्त-द्रव-हास-रोदनाद्य्-अनुभावकानुराग-वशत्वात् खं वायुम् अग्निम् [भा।पु। ११.२.३९] इत्य्-आदि-तद्-उक्त-प्रकारेणैव चेतनाचेतनेषु सर्व-भूतेषु आत्मनो भगवद्-भावम् आत्माभीष्टो यो भगवद्-आविर्भावः, 1 तम् एवेत्य् अर्थः । पश्येद् अनुभवति । अतस् तानि च भूतानि आत्मनि स्व-चित्ते तथा स्फुरति यो भगवान्, तस्मिन्न् एव तद्-आश्रितत्वेनैव अनुभवति, एष भागवतोत्तमो भवति । इत्थम् एव श्री-व्रज-देवीभिर् उक्तम्—वन-लतास् तरव आत्मनि विष्णुं व्यञ्जयन्त्य इव पुष्प-फलाढ्याः [भा।पु। १०.३५.५] इत्य्-आदि ।

यद् वा, आत्मनो यो भगवति भावः प्रेमा, तम् एव चेतनाचेतनेषु भूतेषु पश्यति । शेषं पूर्ववत् । अत एव भक्त-रूप-तद्-अधिष्ठान-बुद्धि-जात-भक्त्या तानि नमस्करोतीति खं वायुम् इत्य्-आदौ पूर्वम् उक्तम् इति भावः । तथैव चोक्तं ताभिर् एव—

नद्यस् तदा तद् उपधार्य मुकुन्द-गीतम्
आवर्त-लक्षित-मनो-भव-भग्न-वेगाः ॥ [भा।पु। १०.२१.१५] इत्य्-आदि ।

यद् वा, श्री-पट्ट-महिषीभिर् अपि कुररि विलपसि त्वम् [भा।पु। १०.९०.७]इत्य्-आदि । अत्र न ब्रह्म-ज्ञानान्य् अभिधीयते, भागवतैस् तज्-ज्ञानस्य तत्-फलस्य च हेयत्वेन जीव-भगवद्-विभागाभावेन च भागवतत्व-विरोधात्, अहैतुक्य् अव्यवहिता [भा।पु। ३.२९.१०] इत्य्-आदौ ह्य् ऐकान्तिक-भक्ति-लक्षणानुसारेण सुतराम् उत्तमत्व-विरोधाच् च । न च निराकारेश्वर-ज्ञानं प्रणय-रशनया धृताङ्घ्रि-पद्मः [भा।पु। ११.२.५३] इत्य् उपसंहार-गत-लक्षण-परम-काष्ठा-विरोधाद् एवेति विवेचनीयम् ।

[१८९]

अथ मानस-लिङ्ग-विशेषणेनैव मध्यम-भागवतं लक्षयति—

ईश्वरे तद्-अधीनेषु बालिशेषु द्विषत्सु च ।
प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः ॥ [भा।पु। ११.२.४६]

परमेश्वरे प्रेम करोति, तस्मिन् भक्ति-युक्तो भवतीत्य् अर्थः । तथा तद्-अधीनेषु भक्तेषु च मैत्रीं बन्धु-भावम् । बालिशेषु तद्-भक्तिम् अजानत्सु उदासीनेषु कृपाम् । यथोक्तं श्री-प्रह्लादेन—

शोचे ततो विमुख-चेतस इन्द्रियार्थ-
माया-सुखाय भरम् उद्वहतो विमूढान् ॥ [भा।पु। ७.९.४२] इति ।

आत्मनो द्विषत्सु उपेक्षा, तदीय-द्वेषे चित्ताक्षोभेनौदासीन्यम् इत्य् अर्थः । तेष्व् अपि बालिशत्वेन कृपांश-सद्-भावात्, यथैव श्री-प्रह्लादो हिरण्यकशिपौ । भगवतो भागवतस्य वा द्विषत्सु तु सत्य् अपि चित्त-क्षोभे तत्रानभिनिवेशम् इत्य् अर्थः । अस्य बालिशेषु कृपायाः स्फुरणं, द्विषत्सूपेक्षाया एव, न तु प्राग्वत् सर्वत्र तस्य तत्-प्रेम्णा वा स्फुरणम् । ततो मध्यमत्वम् ।

अथोत्तमस्यापि तद्-अधीन-दर्शनेन तत्-स्फुरणानन्दोदयो विशेषत एव । ततश् च तस्मिन्न् अधिकैव मैत्री यद् भवति, तन् नो निषिध्यते, किन्तु सर्वत्र तद्-भावावश्यकता विधीयते । परमोत्तमोत्तमेऽपि तथा दृष्टम्—

क्षणार्धेनापि तुलये न स्वर्गं नापुनर्-भवम् ।
भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः ॥ [भा।पु। ४.२४.५७] इति ।

अथ भागवता यूयं प्रियाः स्थ भगवान् यथा [भा।पु। ४.२५.३०] इति च रुद्र-गीतात् ।

हरेर् गुणाक्षिप्त-मतिर् भगवान् बादरायणिः ।
अध्यगान् महद् आख्यानं नित्यं विष्णु-जन-प्रियः ॥
[भा।पु। १.७.११] इति सूत-वाक्याच् च ।

एवं भोजानां कुल-पांसनः [भा।पु। १०.१.२४] इत्य्-आदौ तत्र बादरायणि-प्रभृतीनां द्वेषोऽपि दृश्यते । किन्तु मध्यमानां तत्रानाभिनिवेश एव स्फुरति । तेषां तु तत्रापि तद्-विध-शास्तृत्वेन निजाभीष्ट-देव-परिस्फूर्तिर् न व्याहन्यत एवेति विशेषः । तद्-दृष्ट्यैव च श्रीमद्-उद्धवादीनाम् अपि श्री-दुर्योधनादौ नमस्कारः ।

सत्त्वं विशुद्धं वसुदेव-शब्दितं
यद् ईयते तत्र पुमान् अपावृतः । [भा।पु। ४.३.२१] इत्य्-आदि श्री-शिव-वाक्यवत् ।

उक्तं च लक्ष्मणा-हरणे—सोऽभिवन्द्याम्बिका-पुत्रम् [भा।पु। १०.६८.१७] इत्य्-आदौ दुर्योधनं चेति । यत्र पक्षे च स्वकीय-भावस्यैव सर्वत्र परिस्फूर्तेः श्री-भगवद्-आदि-द्विषत्स्व् अपि सा पर्यवस्यति, तत्र च नायुक्तता, यतस् ते निज-प्राण-कोटि-निर्मञ्छनीय-तच्-चरण-पङ्कज-पराग-लेशास् तेषां दुर्व्यवहार-दृष्ट्या क्षुभ्यन्ति । स्वीय-भावानुसारेण त्व् एवं मन्यन्ते—“अहो ईदृशश् चेतनो वा कः स्याद् यः पुनर् अस्मिन् सर्वानन्द-कन्द-कदम्बे2 निरुपाधि-परम-प्रेमास्पदे सकल-लोक-प्रसादक-सद्-गुण-मणि-भूषिते सर्व-हित-पर्यवसायि-चर्यामृते श्री-पुरुषोत्तमे तत्-प्रिय-जने वा प्रीतिं न कुर्वीत । तद्-द्वेष-कारणं तु सुतराम् एवास्मद्-बुद्धि-पद्धतिम् अतीतम् । तस्माद् ब्रह्मादि-स्थावर-पर्यन्ता अदुष्टा दुष्टाश् च तस्मिन् बाढं रज्यन्त एव” इति । तद् उक्तं श्री-शुकेन—

गोविन्द-भुज-गुप्तायां द्वारवत्यां कुरूद्वह ।
अवात्सीन् नारदोऽभीक्ष्णं कृष्णोपासन-लालसः ॥
को नु राजन्न् इन्द्रिय-वान् मुकुन्द-चरणाम्बुजम् ।
न भजेत् सर्वतो-मृत्युर् उपास्यन् अमरोत्तमैः ॥ [भा।पु। ११.२.१-२] इति ।


  1. भगवद्-आद्य्-अनुभवस् (य) ↩︎

  2. सर्वानन्द-कदम्बे (ख, ग, च); सर्वानन्द-कदम्बके (ज, य) ↩︎