१८७

अत्र चैवं विवेचनीयम् । तत्-तन्-मार्गे सिद्धा महान्तो द्विविधा दर्शिताः । अत्र च ज्ञान-सिद्धाः—देहं च नश्वरम् अवस्थितम् उत्थितं वा सिद्धो न पश्यति यतोऽध्यगमत् स्वरूपम् [भा।पु। ११.१३.३५] इत्य्-आदौ वर्णिताः ।

अत्र भक्ति-सिद्धास् त्रिविधाः—प्राप्त-भगवत्-पार्षद-देहाः, निर्धूत-कषायाः, मूर्च्छित-कषायाश् च । यथा श्री-नारदादयः, श्री-शुकदेवादयः, प्राग्-जन्म-गत-नारदादयश् च—

प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् ।
प्रारब्ध-कर्म-निर्वाणो न्यपतत् पाञ्च-भौतिकः ॥ [भा।पु। १.६.२९] इत्य्-आदौ ।
स्व-सुख-निभृत-चेतास् तद्-व्युदस्तान्य-भावोऽप्य्
अजित-रुचिर-लीलाकृष्ट-सारः [भा।पु। १२.१२.६९] इत्य्-आदौ ।
हन्तास्मिन् जन्मनि भवान् मा मां द्रष्टुम् इहार्हति ।
अविपक्व-कषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥ [भा।पु। १.६.२२] इत्य्-आदौ च प्रसिद्धेः ।

श्री-नारदस्य पूर्व-जन्मनि स्थित-कषायस्य प्रेम वर्णितं स्वयम् एव—

प्रेमातिभर-निर्भिन्न-पुलकाङ्गोऽतिनिर्वृतः ।
आनन्द-सम्प्लवे लीनो नापश्यम् उभयं मुने ॥ [भा।पु। १.६.१८] इत्य्-आदौ ।

श्री-भरत एवात्रोदाहरणीयः । तस्य च भूत-पिपालयिषा-रूपः प्रारब्धालम्बनः सात्त्विक-कषायो निगूढ आसीत्, प्रेमा च वर्णित इति । तद् एवं समान-प्रेम्णि त्रिविधे पूर्व-पूर्वाधिक्यं ज्ञेयम् । क्वचित् स्थितेऽपि [प्राकृत-देहादित्वे यदि प्रेम्णः परिमाणतः स्वरूपतो वाधिक्यं दृश्यते], 1 तदा प्रेमाधिक्येनैवाधिक्यं ज्ञेयम् । तच् च भजनीयस्य भगवतोऽंशांशित्व-भेदेन भजतश् च दास्य-सख्यादि-भेदेन स्वरूपाधिक्यं, प्रेमाङ्कुर-प्रेमादि-भेदेन परिमाणाधिक्यं च प्रीति-सन्दर्भे [९८-१०४ परिच्छेदे] विवृत्य दर्शयिष्यामः । साक्षात्कार-मात्रस्यापि यद्यपि पुरुष-प्रयोजनत्वं, तथापि तस्मिन्न् अपि साक्षात्कारे यावान् यावान् श्री-भगवतः प्रियत्व-धर्मानुभवः, तावांस् तावान् उत्कर्षः । निरुपाधि-प्रीत्य्-आस्पदता-स्वभावस्य प्रियत्व-धर्मानुभवं2 विना तु साक्षात्कारोऽप्य् असाक्षात्कार एव, माधुर्यं विना दुष्ट-जिह्वया खण्डस्येव । अत एवोक्तं श्री-ऋषभ-देवेन—प्रीतिर् न यावन् मयि वासुदेवे, न मुच्यते देह-योगेन तावत् [भा।पु। ५.५.६] इति ।

ततः प्रेम-तारतम्येनैव भक्त-महत्त्व-तारतम्यं3 मुख्यम् । अत एव मयीशे कृत-सौहृदार्थाः [भा।पु। ५.५.३] इत्य् एव तल्-लक्षणत्वेनोक्तम् । यत्र तु प्रेमाधिक्यं साक्षात्कारः, 4 कषायादि-राहित्यादिकम् अप्य् अस्ति, स परमो मुख्यः । तत्रैकैकाङ्ग-वैकल्ये न्यून-न्यून इति ज्ञेयम् । तद् एवं, ये वा मयीशे [भा।पु। ५.५.३] इत्य्-आदिना ये उक्ताः, ते तु प्राप्त-पार्षद-देहा न भवन्ति, तथा विषय-वैराग्येऽपि गूढंसंस्कारवन्तोऽपि5 सम्भवन्ति । ततस् तद्-विवेचनाय प्रकरणान्तरम् उत्थाप्यते । यथा राजोवाच—

अथ भागवतं ब्रूत यद्-धर्मो यादृशो नृणाम् ।
यथाचरति यद् ब्रूते यैर् लिङ्गैर् भगवत्-प्रियः ॥ [भा।पु। ११.२.४४]

अथ अनन्तरं भागवतं ब्रूत। तज्-ज्ञानार्थं स च नॄणां मध्ये यद्-धर्मो यत्-स्वभावस् तं स्वभावं ब्रूत । यथा च स आचरति अनुतिष्ठति, तद्-अनुष्ठानं ब्रूत । यद् ब्रूते तद्-वचनं च ब्रूतेति मानस-कायिक-वाचिक-लिङ्ग-पृच्छा ।

ननु पूर्वं शृण्वन् सुभद्राणि रथाङ्ग-पाणेः [भा।पु। ११.२.३९] इत्य्-आदिना ग्रन्थेन तत्-तल्-लिङ्गं श्री-कविनैवोक्तम् ? सत्यम् । तथापि पुनस् तद्-अनुवादेन तेषु लिङ्गेषु यैर् लिङ्गैर्भगवत्-प्रियोयादृश उत्तम-मध्यमतादि-भेद-विविक्तो6 भवति, तानि लिङ्गानि विविच्य ब्रूतेत्य् अर्थः ॥


  1. “प्राकृत-देहादित्वे… दृश्यते” इत्य् अनुच्छेदांशः क-ख-ग-घ-च-करलिपिषु प्राप्तः । ↩︎

  2. प्रियत्व-धर्मं (ग, च, य) ↩︎

  3. भक्त-तारतम्यं (ग, ज) ↩︎

  4. साक्षात्कार एव प्रेमाधिक्यम् (य)- ↩︎

  5. निगूढ- (क, ख, ग, ङ, च, य) ↩︎

  6. उत्तम-मध्यमतादि-विविक्तो (छ, ज, झ, ञ, य) ↩︎