तद् एवं सत्-सङ्ग एव तत्-साम्मुख्ये द्वारम् इत्य् उक्तम् । ते च सन्तस् तत्-सम्मुखा एवात्र गृह्यन्ते, न तु वैदिकाचार-मात्र-पराः, अनुपयोगित्वात् । तत्र यादृशः सत्-सङ्गस् तादृशम् एव साम्मुख्यं भवतीति वक्तुं तेषु सत्सु ये महान्तस् तेषां द्वैविध्यम् आह सार्धेन—
महान्तस् ते सम-चित्ताः प्रशान्ता
विमन्यवः सुहृदः साधवो ये ।
ये वा मयीशे कृत-सौहृदार्था
जनेषु देहम्भर-वार्तिकेषु ॥
गृहेषु जायात्मज-रातिमत्सु
न प्रीति-युक्ता यावद्-अर्थाश् च लोके ॥ [भा।पु। ५.५.२-३]
ये सम-चित्ता निर्विशेष-ब्रह्म-निष्ठाः, तेमहान्तः । तेषां शीलम् आह—प्रशान्ता इत्य्-आदि । महद्-विशेषम् आह—ये वा इति । वा-शब्दः पक्षान्तरे । उत्तर-पक्षत्वाद् अस्यैव श्रैष्ठ्यम् ।मयि कृतं सिद्धं यत् सौहृदं प्रेम, तद् एव अर्थःपरम-पुरुषार्थो येषां तथा-भूता ये तेमहान्त इति पूर्वेणान्वयः । यतो मयिसौहृदार्थास् तत एव देहम्भर-वार्त्तिकेषु विषय-वार्ता-निष्ठेषु जनेषु तथा गेहेषुजायात्मज-बन्धु-वर्ग-युक्तेषु न प्रीति-युक्ताः, किन्तु यावद्-अर्थः यावान् अर्थः श्री-भगवद्-भजनानुरूपं प्रयोजनं, तावान् एवार्थो धनं येषां, तथाभूता इत्य् अर्थः । उभयोर् महत्त्वं च महा-ज्ञानित्वान् महा-भागवतत्वाच् च, न तु द्वयोः साम्याभिप्रायेण, मुक्तानाम् अपि सिद्धानां नारायण-परायणः [भा।पु। ६.१४.५] इत्य्-आद्य्-उक्तेः । अत्र ज्ञान-मार्गे ब्रह्मानुभविनो महान्तो भक्ति-मार्गे लब्ध-भगवत्-प्रेमाणो महान्त इति लक्षण-सामान्यम् इति ज्ञेयम् ॥
॥ ५.५ ॥ श्री-ऋषभः स्व-पुत्रान् ॥ १८६ ॥