तद् एवं सत्-सङ्ग-मात्रस्य तत्-साम्मुख्य-मात्रे निदानत्वम् उक्तम् । एतद् एव व्यतिरेकेणाह—
ज्ञानं विशुद्धं परमार्थम् एकम्
अनन्तरं त्व् अबहिर् ब्रह्म सत्यम् ।
प्रत्यक् प्रशान्तं भगवच्-छब्द-संज्ञं
यद् वासुदेवं कवयो वदन्ति ॥
रहूगणैतत् तपसा न याति
न चेज्यया निर्वपणाद् गृहाद् वा ।
न च्छन्दसा नैव जलाग्नि-सूर्यैर्
विना महत्-पाद-रजो-ऽभिषेकम् ॥ [भा।पु। ५.१२.१२]
टीका च—तर्हि किं सत्यम् ? तत्राह—ज्ञानं सत्यम् । व्यावहारिक-सत्यत्वं व्यावर्तयति—परमार्थम् । वृत्ति-ज्ञान-व्यवच्छेदार्थानि षड्-विशेषणानि—विशुद्धं, तत् तु आविद्यकम् । एकं, तत् तु नाना-रूपम् । अनन्तरंत्वबहिर् बाह्याभ्यन्तर-शून्यं, तत् तु विपरीतम् ।ब्रह्म परिपूर्णं, तत् तु परिच्छिन्नम् । प्रत्यक्, तत् तु विषयाकारम् । प्रशान्तं निर्विकारं, तत् तु स-विकारम् । तद् एवं-स्वरूपं ज्ञानं सत्यम् इत्य् उक्तम् । कीदृशं तत् ? ऐश्वर्यादि-षड्-गुणत्वेन भगवच्-छब्दः संज्ञा यस्य । यच् च ज्ञानं वासुदेवं वदन्ति ।
तत्-प्राप्तिश् च महत्-सेवां विना न भवतीत्य् आह—हे रहूगण!एतज् ज्ञानं तपसा पुरुषो न याति, इज्यया वैदिक-कर्मणा, निर्वपणाद् अन्नादि-संविभागेन, गृहाद्वा तन्-निमित्त-परोपकारेण, छन्दसा वेदाभ्यासेन, जलाग्न्य्-आदिभिर् उपासितैः ॥इत्य् एषा ।
अत्र ब्रह्मत्वादिना जीव-स्वरूपं सूक्ष्मत्वादि-धर्मकं ज्ञानम् अपि निरस्तं वेदितव्यम्॥
॥ ५.१२ ॥ श्री-ब्राह्मणो रहूगणम् ॥ १८५ ॥