१८४

सत्-सङ्गमस्यैव परम-संस्कार-हेतुत्वात् तद्-अर्थं न पुरुषस्य संस्कार-हेत्व्-अन्तरम् अपेक्ष्यं च, यत आह—

न ह्य् अम्-मयानि तीर्थानि न देवा मृच्-छिला-मयाः ।
ते पुनन्त्य् उरु-कालेन दर्शनाद् एव साधवः ॥ [भा।पु। १०.८४.११] इति ।

ते कथं नाद्रियन्ते गौणत्वात् ? इत्य् आह—ते पुनन्तीति ॥

॥ १०.८४ ॥ श्री-भगवान् मुनि-वर्गम् ॥ १८४ ॥