१८३

सतां कृपा च दुरवस्था-दर्शन-मात्रोद्भवा, न स्वोपासनाद्य्-अपेक्षा, यथा श्री-नारदस्य नलकूवर-मणिग्रीवयोः । तद् आह—

भजन्ति ये यथा देवान् देवा अपि तथैव तान् ।
छायेव कर्म-सचिवाः साधवो दीन-वत्सलाः ॥ [भा।पु। ११.२.६] इति ।

स्पष्टम् ॥ ११.२ ॥ श्रीमान् आनकदुन्दुभिः ॥ १८३ ॥