१८२

तथा च—

तस्यैकदा तु भवनम् अङ्गिरा भगवान् ऋषिः ।
लोकान् अनुचरन्न् एतान् उपागच्छद् यदृच्छया ॥ [भा।पु। ६.१४.१४]

तस्य चित्रकेतोः । अत्रापि तदैव तस्य साम्मुख्यं जातं, कालान्तरे तु प्रादुर्भूतम् इति मन्तव्यम् । अत एव तद्-विलाप-समये श्रीमताङ्गिरसैव तं प्रति—ब्रह्मण्यो1 भगवद्-भक्तो नावसीदितुम् अर्हति [भा।पु। ६.१५.१२] इत्य् उक्तम् ॥

॥ ६.१४ ॥ श्री-शुकः ॥ १८२ ॥


  1. सम्प्रति (? क, ख, ङ, च) प्रोबब्ल्य् _तं प्रति। _थिस् इस् नोत् इन् ओथेर् एदितिओन्स् नोत् लिस्तेद् हेरे। ↩︎