१८१

ततः सत्-सङ्ग-हेतुश् च सतां स्वैर-चारितैव, नान्यः । यथाह—

त एकदा निमेः सत्रम् उपजग्मुर् यदृच्छया । [भा।पु। ११.२.२४]

ते नव-योगेश्वरा यदृच्छया स्वैरतया न तु हेत्व्-अन्तर-प्रयुक्ततयेत्य् अर्थः । यदृच्छा स्वैरिता इत्य् अमरः । सत्सु परमेश्वर-प्रयोक्तृत्वं च सद्-इच्छानुसारेणैव । तद् उक्तं स्वेच्छामयस्य [भा।पु। १०.१४.२] इति, अहं भक्त-पराधीनः [भा।पु। ९.४.४६] इति च ।

॥ ११.२ ॥ श्री-नारदः ॥ १८१ ॥