ततः सत्-सङ्गस्यैव तत्र निदानत्वं सिद्धम् । तच् च युक्तम्, अनादि-सिद्ध-तज्-ज्ञान-मय-तद्-वैमुख्यवताम् अन्यथा हि तद्-असम्भवः । तद् उक्तम्—
तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना
नासाव् ऋषिर् यस्य मतं न भिन्नम् ।
धर्मस्य तत्त्वं निहितं गुहायां
महाजनो येन गतः स पन्थाः ॥ [म।भा ३.३१३.११७]
तथैव श्री-प्रह्लाद-वाक्यम्—
मतिर् न कृष्णे परतः स्वतो वा
मिथोऽभिपद्येत गृह-व्रतानाम् । [भा।पु। ७.५.३०] इत्य् उपक्रम्य—
नैषां मतिस् तावद् उरुक्रमाङ्घ्रिं
स्पृशत्य् अनर्थापगमो यद्-अर्थः ।
महीयसां पाद-रजो-ऽभिषेकं
निष्किञ्चनानां न वृणीत यावत् ॥ [भा।पु। ७.५.३२]
तथा तद्-विमुख-कर्मादिभिस् तत्-साम्मुख्य-प्रतिपत्तेश् चात्यान्तायोगः, अन्यत्र धर्माद् अन्यत्राधर्माद् अन्यत्रास्मात्कृताकृताद् अन्यत्र भूताच् च भव्याच् च[क।उ। १.२.१४] इति श्रुत्य्-आदेः । तम् एतम् आत्मानं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानशकेन [बृ।आ।उ। ४.४.२] इति श्रुत्य्-आदिकं तु तत्-साम्मुख्येनैव प्रयुक्तानि कर्माण्य् अभिदधाति । तर्हि तद् एव साम्मुख्यं कथं स्याद् इति पुनर् अपि हेतुर् एव प्रष्टव्यः स्यात् ।
अथ भगवत्-कृपैव तत्-साम्मुख्ये प्राथमिकं कारणम् इति च गौणम् । सा हि संसार-दुरन्तानन्त-सन्ताप-सन्तप्तेष्व् अपि तद्-विमुखेषु स्वतन्त्रा न प्रवर्तते, तद्-असम्भवात् । कृपा-रूपश् चेतो-विकारो हि पर-दुःखस्य स्व-चेतसि स्पर्शे सत्य् एव जायते । तस्य तु सदा परमानन्दैक-रसत्वेनापहत-कल्मषत्वेन च श्रुतौ जीव-विलक्षणत्व-साधनात् तेजो-मालिनस् तिमिरायोगवत् तच्-चेतस्य् अपि तमो-मय-दुःख-स्पर्शनासम्भवेन तत्र तस्या जन्मासम्भवः । अत एव सर्वदा विराजमानेऽपि कर्तुम् अकर्तुम् अन्यथा कर्तुं समर्थे तस्मिंस् तद्-विमुखानां न संसार-सन्ताप-शान्तिः । अतः सत्-कृपैकावशिष्यते ।
सन्तोऽपि तदानीं यद्यपि सांसारिक-दुःखैर् न स्पृश्यन्त एव, तथापि लब्ध-जागराः स्वप्न-दुःखवत्त्वे कदाचित् स्मरेयुर् अपीत्य् अतस् तेषां संसारिकेऽपि कृपा भवति, यथा श्री-नारदस्य नलकूवर-मणिग्रीवयोः । तस्मात् प्रस्तुतेऽपि संसारिक-दुःखस्य तद्-धेतुत्वाभावात् । परमेश्वर-कृपा तु स एवात्र मम शरणम् इत्य्-आदि-दैन्यात्मिका-भक्ति-सम्बन्धेनैव जायते, यथा गजेन्द्रादौ, व्यतिरेके नारक्यादौ । भक्तिर् हि भक्त-कोटि-प्रविष्ट-तद्-आर्द्रीभावयितृ-तच्-छक्ति-विशेष इति विवृतं विवरिष्यते च । दैन्य-सम्बन्धेन च साधिकम् उच्छलिता भवतीति तत्र तद्-आधिक्यम् । तस्माद् या कृपा तस्य सत्सु वर्तते सा सत्-सङ्ग-वाहनैव वा सत्-कृपा-वाहनैव वा सती जीवान्तरे सङ्क्रमते, न स्वतन्त्रेति स्थितम्। तथैव चाहुः—
स्वयं समुत्तीर्य सुदुस्तरं द्युमन्
भवार्णवं भीमम् अदभ्र-सौहृदाः ।
भवत्-पदाम्भोरुह-नावम् अत्र ते
निधाय याताः सद्-अनुग्रहो भवान् ॥ [भा।पु। १०.२.३१]
हे द्युमन् स्व-प्रकाश ! भवत्-पदाम्भोरुह-लक्षणा या नौर् भवार्णव-तरणोपायस् ताम् अत्र भवार्णव-पारे निधाय उत्तरोत्तर-जनेषु प्रकाश्येत्य् अर्थः । ननु कथं तां न स्वयं प्रकाशयामि ? कथम् इव तेषाम् अपेक्षा ? तत्राह—सद्भिर् एव द्वार-भूतैर् अन्यान् अनुगृह्णाति यः, स सद्-अनुग्रहो भवान् इति । यद् वा, सन्त एवानुग्रहो यस्य सः । तवानुग्रहो यः प्रापञ्चिके चरति, स तद्-आकारतयैव1 चरति, नान्य-रूपतयेत्य् अर्थः । तथोक्तं श्री-रुद्र-गीते—
अथानघाङ्घ्रेस् तव कीर्ति-तीर्थयोर्
अन्तर्-बहिः-स्नान-विधूत-पाप्मनाम् ।
भूतेष्व् अनुक्रोश-सुसत्त्व-शीलिनां
स्यात् सङ्गमोऽनुग्रह एष नस् तव ॥ [भा।पु। ४.२४.५८]इति ।
सत्स्व् अनुग्रहो यस्येति व्याख्यानेऽपि तद्-विमुखेष्व् असत्सु तवानुग्रहो नास्तीति प्राप्तेः सद्-द्वारैव तत् प्रकाशनम् उचितम् इत्य् एवायाति । तद् एवं—
जायमानं हि पुरुषं यं पश्येन् मधुसूदनः ।
सात्त्विकस् तु स विज्ञेयो भवेन् मोक्षार्थ-निश्चितः ॥ [म।भा। १२.३३६.६८]
इति मोक्ष-धर्म-वचनम् अपि सत्-सङ्गानन्तर-जन्म-परम् एव बोद्धव्यम् ।
॥ १०.२ ॥ देवाः भगवन्तम् ॥ १८० ॥
-
सद्-आकारतयैव (ख, च) ↩︎