१७९

अथ तस्या एव प्रकारान्तरेण स्थापनाय प्रकरणान्तरं यावत्-तल्-लक्षण-प्रकरणम् । तद् एवं परम-दुर्लभ-स्वरूपं परम-दुर्लभ-फलं चाकिञ्चनाख्य-साक्षाद्-भक्ति-रूपं साम्मुख्यं कथं स्याद् इति वक्तुं साम्मुख्य-मात्रस्य निदानम् उपलक्षयति—

भवापवर्गो भ्रमतो यदा भवेज्
जनस्य तर्ह्य् अच्युत सत्-समागमः ।
सत्-सङ्गमो यर्हि तदैव सद्-गतौ
परावरेशे त्वयि जायते मतिः ॥ [भा।पु। १०.५१.५३]

यदाभ्रमतः संसरतो जनस्य भवापवर्गो भवेत् सम्प्राप्त-कालः स्यात्, तदा सत्-सङ्गमोभवेत् । “तदा भवापवर्गो भवेत्” इति वक्तव्ये वैपरीत्येन निर्देशस् तत्र सत्-सङ्गमस्य शीघ्रतयावश्यकतया च हेतुता-विवक्षया1 । अत एवातिशयोक्ति-नामालङ्कारस्य चतुर्थो भेदोऽयम् इत्य् आलङ्कारिकाः । तद् उक्तं तद्-विवृत्तौ—

चतुर्थी सा कारणस्य गदितुं शीघ्र-कारिताम् ।
या हि कार्यस्य पूर्वोक्तिः इति ।

तथोक्तं नलकूबर-मणिग्रीवौ प्रति श्री-भगवता—

साधूनां सम-चित्तानां सुतरां मत्-कृतात्मनाम् ।
दर्शनान् नो भवेद् बन्धः पुंसोऽक्ष्णोः सवितुर् यथा ॥ [भा।पु। १०.१०.४१] इति ।

तत्र हेतुः—यर्हि यदा सत्-सङ्गमस् तदैवपरावरेशे त्वयि मतिर् भवति । तद्-वैमुख्य-करानादि-सिद्ध-तज्-ज्ञान-संसर्गाभावान्ते तत्-साम्मुख्य-करं तज् ज्ञानं जायत इत्य् अर्थः । अत एवोक्तं श्री-विदुरेण—

जनस्य कृष्णाद् विमुखस्य दैवाद्
अधर्म-शीलस्य सुदुःखितस्य ।
अनुग्रहायेह चरन्ति नूनं
भूतानि भव्यानि जनार्दनस्य ॥ [भा।पु। ३.५.३] इति ।

अत्र दैवात् प्राचीन-कर्मणो हेतोस् तद्-आवेशाद् अधर्म-शीलस्य भगवद्-धर्म-रहितस्येत्य् अर्थः । मूल-पद्ये “यर्हि…तदैव” इति निर्देशान् न काल-विलम्बेन । तत्र चैव-कारान् नान्यदा कदाचिद् अपीत्य् अर्थः । तेन तन्-मतौ हेतुः—सद्-गतौ, यत्र यत्रसन्तः सङ्गच्छन्ते, तत्र तत्र गतिः स्फुरणं यस्य तस्मिंस् त्वयि इति । तथा चेतिहास-समुच्चये—

यत्र रागादि-रहिता वासुदेव-परायणाः ।
तत्र सन्निहितो विष्णुर् नृपते नात्र संशयः ॥ इति ।

सतां गताव् इत्य् अत्र व्याख्यानेऽपि असतां त्व् असौ न गतिः । अतस् तद्-द्वारैवान्येषां तल्-लाभो युक्त इति पूर्ववद् एव । पिङ्गलाया अपि सत्-सङ्गोविदेहानां पुरे ह्य् अस्मिन्न् अहम् एकैव मूढ-धीः [भा।पु। ११.८.३४] इत्य् अत्र व्यक्तोऽस्ति । टीका च—सत्-सङ्गतौ सत्याम् अप्य् अहो मे मोह इत्य् आह—विदेहानाम् इति ॥ इत्य् एषा ।

तद् एवं यत्र नोपलभ्यते सत्-सङ्गः, तत्राप्य् आधुनिकः प्राक्तनो वा पारम्परिको वानुमेय एव । अत्र कृत-श्री-नारदादि-दर्शनादेर् अपि देवतादेः श्री-नलकूवरादिवत् तादृशत्व-प्राप्तिर् न श्रूयत इत्य् अत एवं विवेचनीयम्—यद्यप्य् अपराध-सद्-भावो वर्तते पुरुषे, तदा तद्-दोषेण सत्सु निरादराणां साधारण-पुण्यादि-दृष्टीनां च तद्-दोष-शान्त्य्-अर्थं सत्-सङ्गस्य भगवत्-साम्मुख्य-कारणत्वेऽपि तत्-कृपा-साहाय्यम् अपेक्ष्यते । निरपराधत्वे सति सत्-सङ्गेनैव जात-परमोत्तम-दृष्टीनां तेषु मनोऽवधानाभावेऽपि सत्-सङ्ग-मात्रं तत्-कारणम् इति । अतः सापराधान् एवाधिकृत्योक्तम् अजानज-देवैः—

तान् वै ह्य् असद्-वृत्तिभिर् अक्षिभिर् ये
पराकृतान्तर्-मनसः परेश ।
अथो न पश्यन्त्य् उरुगाय नूनं
ये ते पद-न्यास-विलास-लक्ष्म्याः ॥ [भा।पु। ३.५.४४] इति ।

ते तव पद-न्यास-विलास-लक्ष्म्याः सम्बन्धिनो ये भक्ता इत्य् अर्थः । ते तान् नूनं प्रायो न पश्यन्ति न कृपा-दृष्टि-विषयीकुर्वन्तीत्य् अर्थः । कान् ? य असद्-वृत्तिभिः सापराध-चेष्टैर् अक्षिभिर् इन्द्रियैः पर-कृतान्तर्-मनसो दूरीकृतान्तर्मुख-चित्त-वृत्तयो बहिर्मुखा इत्य् एवं व्याख्यानम् अत्राप्य् अनुसन्धेयम् ।

अत्र साधारणासद्-वृत्तित्वं न गृह्यते, सर्वस्य तत्-कृपायाः प्राक् तथाभूतत्वात्, जनस्य कृष्णाद् विमुखस्य दैवात् [भा।पु। ३.५.३] इत्य्-आदिक-विषयं स्याद् इति । तस्माद् अनपराधासद्-वृत्तौ तेषां कृपा प्रवर्तत एव । कथञ्चिद् अवधानाभावेन तद्-अप्रवृत्ताव् अपि सङ्ग-मात्रेणैव तेषां सन्-मतिः स्यात् । यत्र तु सापराधेऽपि स्वैरतयैव कृपां कुर्वन्ति, तस्यैव तन्-मतिः स्यान् नान्यस्य, नलकूवरवत् साधारण-देवतावच् चेति ।

तथा श्री-भरतस्य रहूगणे यथा चोपरिचर-वसोर् वृत्तं विष्णु-धर्मे—स हि देव-साहाय्यायैव दैत्यान् हत्वा विरज्य च भगवद्-अनुध्यानाय पातालं च प्रविष्टवान् । तं च निवृत्तम् अपि हन्तुं लब्ध-च्छिद्रा दैत्याः समागत्य तत्-प्रभावेणोद्यत-शस्त्रा एवातिष्ठन्। ततश् च व्यर्थोद्यमाः पुनः शुक्रोपदेशेन तं प्रति पाषण्ड-मार्गम् उपदिशन्तोऽपि जातया तत्-कृपया भगवद्-भक्ता बभूवुः [वि।ध।पु। ३.३४६] इति ।

अत उक्तं विष्णु-धर्म एव—

अनेक-जन्म-संसार-चिते पाप-समुच्चये ।
नाक्षीणे जायते पुंसां गोविन्दाभिमुखी मतिः ॥ इति ।

ननु,

नैतान् विहाय कृपणान् विमुमुक्ष एको

नान्यं त्वद् अस्य शरणं भ्रमतोऽनुपश्ये [भा।पु। ७.९.४४]

इत्य् एवं श्री-प्रह्लादस्य सर्वस्मिन्न् अपि संसारिणि कृपा जाता, तर्हि कथं न सर्व-मुक्तिः स्यात् ? उच्यते—जीवानाम् अनन्तत्वान् न ते सर्वे मनसि तस्यारूढाः, ततो यावन्तो दृष्ट्वा श्रुतास् तच्-चेतस्य् आरूढाः, तावतां तत्-प्रसादाद् भविष्यत्य् एव मोक्षः, नैतान् इत्य् एतच्-छब्दप्रयोगात् । ये चान्ये तेषाम् अपि तत्-कीर्तन-स्मरण-मात्रेणैव कृतार्थता-वरं स्वयम् एव कृपया दत्तवान् श्री-नृसिंह-देवः—

य एतत् कीर्तयेन् मह्यं त्वया गीतम् इदं नरः ।
त्वां च मां च स्मरन् काले कर्म-बन्धात् प्रमुच्यते ॥ [भा।पु। ७.१०.१४] इति ।

यस् त्वां कीर्तयेद् अपि किं पुनस् त्वं यान् कृपया स्मरसीति भावः । तस्मात् साधूक्तं भवापवर्गो भ्रमतो यदा भवेद् इति ॥

॥ १०.५१ ॥ मुचुकुन्दः श्री-भगवन्तम् ॥ १७९ ॥


  1. सत्-सङ्गमस्यावश्यक-हेतुत्व-विवक्षया (छ, झ, ण) ↩︎