इयम् अकिञ्चनाख्या भक्तिर् एव जीवानां स्वभावत उचिता । स्वाभाविक-तद्-आश्रया हि जीवाः, स कारणं कारणाधिपाधिपः[श्वे।उ। ६.९] इति श्रुतेः । अंशत्वेऽपि बहिरङ्गत्व-स्वीकारात् तद्-आश्रयत्वं सूर्य-मण्डल-बहिर्-आतप-परमाणूनाम् इव । अत एव पाद्मोत्तर-खण्डे प्रणव-व्याख्याने—
अ-कारश् चाप्य् उ-कारश् च म-कारश् च ततः परम् ।
वेद-त्रयात्मकं प्रोक्तं प्रणवं ब्रह्मणः पदम् ॥
अ-कारेणोच्यते विष्णुः श्रीर् उ-कारेण चोच्यते ।
म-कारस् त्व् अनयोर् दासः पञ्चविंशः प्रकीर्तितः ॥ [प।पु। ६.२२६.२२-२३]
अन्ते च—भगवच्-छेष-रूपोऽसौ म-काराख्यः स-चेतनः[प।पु। ६.२२६.२८]इति ।
तथा—
अवधारण-वाच्य् एवम् उ-कारः कैश्चिद् उच्यते ।
श्रीश् च तत्-पक्ष-पातित्वाद् अ-कारेणैव चोच्यते ।
भास्करस्य प्रभा यद्वत् तस्य नित्यानपायिनी ॥ [प।पु। ६.२२६.२९-३०] इत्य्-आदि ।
अत एव श्री-वैष्णवानां प्रणव एव महा-वाक्यम् इति स्थितम् । तथाष्टादशाक्षर-व्याख्याने—
श्रीमते विष्णवे तस्मै दास्यं सर्वं करोम्य् अहम् ।
देश-कालाद्य्-अवस्थासु सर्वासु कमला-पतेः ॥
इति स्वरूप-संसिद्धं मुख्यं दास्यम् अवाप्नुयात् ।
एवं विदित्वा मन्त्रार्थं तद् वृत्तिं सम्यग् आचरेत् ॥
दास-भूतम् इदं तस्य जगत् स्थावर-जङ्गमम् ।
श्रीमन्-नारायणः स्वामी जगतां प्रभुर् ईश्वरः ॥ [प।पु। ६.२२६.३६-३८] इति ।
तद् एतद् आहुः—
स्व-कृत-पुरेष्व् अमीष्व् अबहिर्-अन्तर्-असंवरणं
तव पुरुषं वदन्त्य् अखिल-शक्ति-धृतोऽंश-कृतम् ।
इति नृ-गतिं विविच्य कवयो निगमावपनं
भवत उपासतेऽङ्घ्रिम् अभवं भुवि विश्वसिताः ॥ [भा।पु। १०.८७.२०]
स्वेन त्वया कृतेषु पुरेषु देहेषु वर्तमानं तव पुरुषं जनं तवैव्आंश-रूपेण त्वदीय-स्वरूपेण कृतं नित्य-सिद्धं वदन्ति । तत्र अखिल-शक्ति-धृतस्तव इत्य् उक्त्वा त्वद्-अखिल-शक्ति-गणान्तः-पाति-जीवाख्य-तटस्थ-शक्ति-विशिष्टस्यैव तवांशः, न तु स्वरूप-शक्ति-विशिष्टस्य केवल-स्वरूपस्येत्य् आयातम् । ततो मूल-मण्डल-स्थानीय-त्वद्-आश्रयक-रश्मि-परमाणु-स्थानीया जीवा इति भावः । अंशत्वे हेतुः—अबहिर्-अन्तर्-असंवरणं बहिर् अन्तश् च यस्य संवरणं नास्ति, किन्तु तैस् तैर् उपाधिभिः संवरणम् एवास्तीत्य् अर्थः । अतः संवरण-हीनस्य तवायम् अंश एवेति भावः ।
इति एतत्-प्रकारां नुर् जीवस्य गतिं स्वभावत एव त्वद्-आश्रयकस् त्वद्-एक-जीवनश् चासौ जीव इति तत्त्वं विविच्य ज्ञात्वा कवयः पण्डिताः विश्वसिताः श्रद्दधाना भवत एवाङ्घ्रिमुपासते । विश्वासे हेतुः—निगमावपनं सकल-वेद-बीजोज्जीवनैकाश्रय-क्षेत्रं शास्त्र-योनिम् इत्य् अर्थः । अतो नित्य-त्वद्-आश्रयैक-जीवनानाम् अपि तेषां त्वद्-वैमुख्येन यत् संसार-दुःखं भवति, तद् अपि साम्मुख्येन स्वयम् एव पलायत इत्य् आहुः—अभवम् इति, न विद्यते भवः संसारो यत्रेति ।
अथवा, भजनीयस्य नित्यत्वेन भक्तेर् अप्य् अनश्वरत्वं प्रतिपादयन्ति—अभवं जन्म-रहितम् अङ्घ्रिम् इति । तस्माद् अकिञ्चानाख्या भक्तिर् एव सर्वोर्ध्वम् अभिधेया ॥
॥ १०.८७ ॥ श्रुतयः श्री-भगवन्तम् ॥ १७८ ॥