यस्माद् एवं सर्वानन्दातिक्रम-लिङ्गेन परमानन्द-स्वरूपासौ भक्तिस् तस्मात् तत्र स्वभावत एव प्रवृत्तिर् गुणः, तथाभूताम् अपि तन्-माधुरीं स्वदोषेणानुभवितुम् असमर्थानां तु केवल-विधि-निषेध-सम्भव-गुण-दोष-दृष्ट्यैवप्रवृत्तिर् अपि पूर्वापेक्षया दोष एव । यथोक्तम् एतत् पूर्वाध्याये, शमो मन्-निष्ठताबुद्धेः [भा।पु। ११.१९.३६] इत्य्-आदौ, साक्षाद्-भक्तेर् अपि विधानाविधानयोर् गुण-दोषतां, किं वर्णितेन बहुना [भा।पु। ११.१९.४५] इत्य्-अन्तेन ग्रन्थेन प्रतिपाद्य गुण-दोष-दृशिर् दोषो गुणस् तूभय-वर्जितः [भा।पु। ११.१९.४३] इति । अत एव लब्ध-तन्-माधुर्यानुभवानां तद्-विधि-निषेध-कृत-गुण-दोषौ नस्त एवेत्य् आह—
न मय्य् एकान्त-भक्तानां गुण-दोषोद्भवा गुणाः।
साधूनां सम-चित्तानां बुद्धेः परम् उपेयुषाम् ॥ [भा।पु। ११.२०.३६] ।
टीका च—गुण-दोषैर् विहित-प्रतिषिद्धैर् उद्भवा येषां ते गुणाः पुण्य-पापादयः ॥इत्य् एषा॥
॥ ११.२० ॥ श्री-भगवान् ॥ १७६-१७७ ॥